________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-86: ८.६]
नीइवजा
२५.
83) अप्पहियं कायव्वं जइ सक्कइ परहियं च कायव्वं ।
अप्पहियपरहियाणं अप्पहियं चेव कायव्वं ॥३॥ 84) पुरिसे सञ्चसमिद्धे अलियपमुक्के सहावसंतुट्टे ।
तवधम्मणियममइए विसमा वि दसा समा होइ ॥४॥ 85) सीलं वरं कुलाओ दालिदं भव्वयं च रोगाओ।
विज्जा रज्जाउ वरं खमा वरं सुठु वि तवाओ ॥५॥ 86) सीलं वरं कुलाओ कुलेण किं होइ विगयसीलेण ।
कमलाइ कद्दमे संभवंति न हु हुँति मलिणाई ॥६॥
83) [ आत्महितं कर्तव्यं यदि शक्यते परहितं च कर्तव्यम् । आत्महितपरहितयोरात्महितं चैव कर्तव्यम् ।। ] आत्महितं कर्तव्यं, यदि शक्यते कर्तुं तदा परहितं च कर्तव्यम् । आत्महितपरहितयोर्मध्ये आत्महितं कर्तव्यम् इयमेव नीतिः ।। ८३ ।।।
84) [ पुरुषे सत्यसमृद्धेऽलीकप्रमुक्ते स्वभावसंतुष्टे । तपोधर्मनियममये विषमापि दशा समा भवति ।। ] एते गुणा: पुरुषे वर्तमानं दशावैषम्यं नाशयन्तीति भावः ॥ ८४ ।।।
85) [ शीलं वर कुलात दारिद्रयं भव्यं च रोगात् । विद्या राज्याद्वरं क्षमा बरं सुष्ट्वपि तपसः ॥ ] कुलाच्छीलं वरम् । रोगाद् दारिद्र्यं वरम् , अल्पव्ययं नीरोगत्वम् । वरं राज्याद्विद्या । सुष्ट्वपि तपसः क्षमा वरम् । अकुलोऽपि यदि शीलवान् , दरिद्रोऽपि नीरोगो, भ्रष्टराज्यादपि ( ? भ्रष्टराज्योऽपि ? ) विद्यावान्, प्रतप्ततपसोऽपि ( प्रतप्ततपस्कोऽपि ? ) क्षमावान् पुरुषः श्रेष्ठ इति भावः ।। ८५ ।।
86) [ शीलं वरं कुलात् कुलेन किं भवति विगतशीलेन । कमलानि कर्दमे संभवन्ति न खलु भवन्ति मलिनानि ।।] पूर्वोक्तानां पदार्थानामाद्य दृष्टान्तयति । शीलं वरं कुलात् । कुलेन किं भवति विगतशीलेन । कुतः । कमलानि कर्दमें संभवन्ति, न खलु भवन्ति मलिनानि । अतः शीलं कारणं न तु वंशः ।। ८६ ।।
For Private And Personal Use Only