SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .१६० वजालग्गं [589. : ६१४. 589) कुदालघायघणताडणेण पज्झरइ वसुह न हु चोजं । सो उड्डो जस्स वि दसंणेण वडवा जलं देह ॥ ४ ॥ ६२. कण्हवज्जा [कृष्णपद्धतिः] 590) 'कुसलं राहे' 'सुहिओ सि कंस' 'कंसो कहि' 'कहिं राहा'। इय बालियाइ भणिए विलक्खहसिरं हरि नमह ॥१॥ 591) तं नमह जस्स गोटे मयणाणलतावियाउ गोवीओ। पायडकंठग्गहमग्गिरीउ रिटुं पसंसंति ॥२॥ च्छलज्जलस्रोतसम् । यथा कश्चन कामुको लब्धसुखो निर्दयालिङ्गनबहुलोच्छलद्रेतसं नारी द्रवीभूतामपि पुनरालिङ्गति ।। ५८८ ॥ ___589) [ कुद्दालघातघनताडनेन प्रक्षरति वसुधा न खल्वाश्चर्यम् । स खनको यस्य दर्शनेन वडवा जलं ददाति ।। ] वसुधा पृथ्वी कुद्दालघातघनताडनेन यत् प्रक्षरति, तन्न खल्वाश्चर्यकारि । स उड्डो यस्य दर्शनेनैव बडवा जलं ददाति । अयमर्थः । नारी द्वादशांगुलिप्रमाणलिंगदृढघातेन यत् प्रस्रवति तन्नाश्चर्यकारि । यस्य दर्शनेनैव द्रवति स कामुकः कुशलः ।। ५८९ ॥ ____590) [ ' कुशलं राधे । 'सुखितोऽसि कंस' कंसः क्व ' ' क्य राधा' । इति बालिकया भणिते विलक्षहसनशीलं हरिं नमत ।। ] कुशलं राधे, सुखितोऽसि कंस, कंसः क्वात्र, क्वात्र राधा । इति बालिकया भणिते विलक्षहसनशीलं हरि नमत । अयमर्थः । कयाचन इति गोत्रस्खलिते हरिरुक्तिप्रत्युक्तिकया एवमुच्यते स्म । हरिः कांचन गोपबालिकां राधानाम्नालपति स्म । ' कुशलं राधे ' । तर्हि सा क्रोधाविष्टा · सुखितोऽसि कंस' इति हरि प्रत्यवादीत् । ततो भगवान् सचमत्कारं परावृत्य — कंसः क्वात्र' इति पप्रच्छ । ततः सा, 'राधिकापि कात्र' इति प्रत्युत्तरमदादिति ॥५९०॥ 591) [ तं नमत यस्य गोष्ठे मदनानलतापिता गोप्यः । प्रकटकण्ठग्रहमार्गणशीला अरिष्टं प्रशंसन्ति ॥ ] तं नमत हरि, यस्य हरेर्गोष्ठे मदनानलतापिता गोप्योऽरिष्टं वृषभासुरं प्रशंसन्ति । यतः प्रकटकण्ठप्रहण For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy