________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥८८३॥
भाषांतर
अध्य०१६ Je|८८३॥
الانتاج والنعناع
والبكاقعی شعر
साकीDODADDLE
व्या०-श्रीसुधर्मास्वामी स्वशिष्यं जंबूस्वामीनं प्राह-हे आयुष्मन् ! मे मया श्रुतं, तेणं इति तेन भगवता ज्ञानवता तीर्थकरेणाख्यातं, श्रीमहावीरेण स्वामिनोक्तं, आसन्नत्वात्तस्यैव ग्रहणं. पुनरिह श्रीजिनशासने स्थविरगणधरैर्भगवद्भिर्माहात्म्यवद्भिस्तीर्थकरोक्तार्थधारणशक्तिमद्भिर्दश ब्रह्मचर्यसमाधिस्थानान्युक्तानि, ब्रह्मचर्यस्य कारणान्युक्तानि. कोऽर्थः ? ममैवैषा बुद्धिर्नास्ति. किंतु तीर्थकरैः पुनर्गणधरैर्गौनमादिभिः स्वापेक्षया वृद्धैरेवमुक्तं, तथैव मयोच्यते. यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा शब्दतः श्रवणे धृत्वा, निशम्यार्थतो मनस्यवधार्य संयमबहुलः सन् , बहुल:प्रधानप्रधानतरस्थानप्राप्त्योत्तमः संयमो यस्य म बहुलसंयमो वर्धमानपरिणामचारित्रः सन् विहरेत. पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा संवरबहुलः, संवर आश्रवनिरोधः, स बहुलो यस्य स संवरबहुलः, प्रधानाश्रवद्वारनिरोधः, पुनः समाधिबहुलो बहुलसमाधिः प्रधानचित्तस्वास्थ्ययुक्तः सन् विहरेत.पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा भिक्षुर्गुप्तो. मनोवाक्कायगुप्तियुक्तः गुप्तेंद्रियः सन् , अत एव गुप्तं नवगुप्तिसेवनाद्गुप्त सुरक्षितं ब्रह्म चरितुं सेवितुं शीलं यस्य स गुप्तब्रह्मचारी स्थिरब्रह्मचर्यधारकः सन् सदा सर्वदाऽप्रमत्तोऽप्रमादी सन् विहारं कुर्यात. यतो हि पूर्व यः साधुब्रह्मचर्यसमाधिस्थानानि शृणोति स साधुब्रह्मचर्यपालने स्थिरो भवति. यदुक्तं-सुच्चा जाणड कल्लाणं । सुच्चा जाणइ पावगं ॥ उभयपि जाणइ सोचा । जं सेयं तं समायरे ॥ १॥ इति श्रुत्वा जंबूः प्राह
श्री सुधर्मास्वामी पोताना शिष्य जंबूस्वामीने कहे छे-हे आयुष्यमान् ! ते भगवान ज्ञानवान् तीर्थकरे एम आख्यात कथित छे, महावीरस्वामीए कहेल छे. (सन्निहित होवाथी तेनुंज गृहण कराय छे.) के-अहीं जिनशासमां स्थविर अर्थात् तीर्थकरोये कहेला अर्थोनुं धारण करवानी शक्तियाळा महात्म्यशाळी भगवान् गणधरोए दश ब्रह्मचर्य समाधि स्थानो कहेलां छे-ब्रह्मचर्यनां कारणो
For Private and Personal Use Only