________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम्
॥९६६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्पन्न थवाथी छ खंडवाळा भरतक्षेत्रनुं राज्य साधी चक्रवर्ती थह पृथ्वीनं परिपालन करवा लाग्या.
तस्य पुत्राः षष्टिसहस्रसंख्याका जाताः सर्वेषां तेषां मध्ये ज्येष्टो जन्हुक्कुमारो वर्तते. अन्यदा जन्हुकुमारेण कथंचित्र: संतोषितः, स उवाच, जन्हुक्कुमार! यत्तव रोचते तन्मार्गय ? जन्हुरुवाच तात ममास्त्ययमभिलाषः, यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिल भ्रातृ परिवृतः पृथ्वीं परिभ्रमामि सगरचक्रिणा तत्प्रतिपन्नं मशस्ते मुहूर्ते सगरचक्रिणः समीपात्स निर्गतः सबलवाहनोऽनेकजनपदेषु भ्रमन् प्राप्तोऽष्टापदपर्वते. सैन्यमधस्तान्निवेश्य स्वयमष्टापदपर्वतमारूढः, दृष्टवांस्तत्र भरतनरेन्द्रकारितं मणिकनकमयं चतुर्विंशनिजिनप्रतिमाधिष्टितं स्तृपशतसंगतं जिनायतनं, तत्र जिनप्रतिमा अभिवंद्य जन्हुकुमारेण मंत्रिणः पृष्टं, केन सुकृतवतेद्मतीवरमणीयं जिनभवनं कारितं ? मंत्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जन्हुकुमारोऽवदत् अन्यः कश्चिदष्टापदसदृशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः चनसृषु दिक्षु पुरुषास्तद्वद्वेषणाय प्रेषिताः, ते सर्वत्र परिभ्रम्य समायाताः, ऊचुश्च स्वामिन् ईदृशः पर्वतः क्वापि नास्ति, जन्हुना भणितं यद्येवं वयं कुर्म एतस्यैव रक्षां यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः शठाश्च नरा भविष्यति. अभिनव कारणात्पूर्वकृत परिपालनं श्रेयः ततथ दंडरत्नं गृहित्वा समंततोऽष्टापदपार्श्वेषु जन्हुप्रमुखाः सर्वेऽपि कुमाराः खातुं लग्नाः तच्च दंडरत्नं योजनसहस्रं भित्वा प्राप्तो नागभवनेषु तेन तानि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयंतो गता मागराजज्वलनप्रभसमीपे कथितः स्वभवनविदारणवृत्तांतः सोऽपि संभ्रांत उत्थितोऽवधिना ज्ञात्वा क्रोधोध्धुरः समागतः सगरसुतसमीपं भणितवांश्च भो भो किं भवद्भिर्दडरत्नेन पृथ्वीं विदार्यास्मद्भवनोपद्रवः कृतः ?
For Private and Personal Use Only
भाषांतर
अध्य०१८ ॥९६६॥