SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir उत्तराध्ययनसूत्रम् ॥६५५॥ الاكل الفلاشات البلاد بالفائدة البيانا هنا فاع स एव मार्गो निर्दिष्टः, ईर्योपयुक्तो मुनिस्तेनैव मार्गेण गंतुं प्रवृत्तः. लब्धिपात्रस्य तस्य पादप्रभावतस्तादृशोऽपि मार्गः |शान्तो बभूव. तस्मिन्मार्ग शनैः शनैश्चलंतं मुनि वीक्ष्य स पुरोहितः स्वावासगवाक्षात्तीर्य स्वपादाभ्यां तं मागे स्पृष्ट IDEभाषांतर अव्य०१२ वान , हिमवच्छीतलो मार्गः, तेन ज्ञातं मुनिपादमाहात्म्यं, एवं च चिंतितं हा मया पापकर्मणा पुण्यात्मनोऽस्य कीदृशो |JE | मार्गः, प्रकाशितः! परमस्य पादस्पर्शादेव मार्गतापोपशांतिर्जाता. ततो यद्यहमस्य शिष्योऽभूवं तदा ममैतस्य प्राय या मतम्य प्राय-1॥६५५५ श्चित्तं भवतीति चिंतयित्वा तस्य मुनेः पुरः स्वपापं प्रकाशित, पादौ च प्रणतो, मुनिनापि तस्य सम्यग्धर्मः प्रकाशितः. जातसंवेगेन तेन सोमदेवेन तस्य मुनेरंतिके दीक्षा गृहीता, चारित्रं विशेषात् पालयति, परमहं ब्राह्मगत्वादुत्तमजातिरिति मदं कुरुते, परं नैवं भावयति-गुणैमत्तमतां याति । न तु जातिप्रभावतः ॥ क्षीरोदधिसमुत्पन्नः । कालकूटः किमुत्तमः॥१॥ किंच-कौशेयं कृमिजं सुवर्णमुपलाद् दुर्वापि गोरोमतः पंकाचामरसं शशांकमुदधेरिदीवरं गोमयात् ॥ काष्टादग्निरहेः फणादपि मणिर्गोपिचतो रोचना । जाता लोकमहार्यतां निजगुणैः प्राप्ताश्च किं जन्मना ॥२॥ एवं परमार्थमभावयन स जातिमदस्तब्धः सोमदेवः कियत्कालं संयममाराध्य कालक्रमेण मृतो देवो जातः, तत्र चिरकालं | वांछितसुखानि भुक्तवान्. ततश्च्युतो गंगातीरे हरिकेशाधिपस्य यलकोष्टाभिधानस्य चंडालस्य भार्याया गौर्याः कुक्षी समुत्पन्नः. सा च स्वप्ने फलितमाम्रवृक्षं ददर्श, स्वप्नपाठकानां च कथितवती. तैरुक्तं तव प्रधानपुरुषो भविष्यतीति. | कालमासे दारको जातः, जातिमदकरणेनास्य चंडालकुलोत्पत्तिर्जाता. स बालः सौभाग्यरूपरहितो बांधवानामपि हसनीयः, तस्य बल इति नाम प्रतिष्टितं. स च वर्धमानः प्रकामं क्लेशकारित्वेन सर्वेषामुढेगकारी जातः. For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy