________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९५ ॥
19999699696896530300306
www.kobatirth.org
मुक्तः अत्र सत्कारपुरस्कारपरीषहः सोढव्यः साधुभिः, श्राघकेण तु न सोढव्य इति अथ सत्कारे सति प्रज्ञाप्रकर्षापकर्षविह्वलत्वं न विधेयं, अतः प्रज्ञापरीषहोऽपि सोढव्यः.
॥ मूलम् ॥ से नूणं मए पुविं । कम्मा नाणफला कडा ॥ जेणाहं नाभिजाणामि । पुट्टो केण य कहुई ॥ ४० ॥ अह पत्था उइति । कम्माणाणफला कडा ॥ एवमस्सासि अप्पाणं । नच्चा कम्म विवागयं ॥ ४१ ॥ व्याख्या - प्रज्ञापरीषहोऽपि द्विधा सोढव्यः, प्रज्ञाप्रकर्षे सत्येवं चिंतनीयं, येन कारणेन केनापि पुरुषेण ' कहुई' कुत्रचित्प्रश्ने पृष्टः सन्नाहं पुरुषप्रश्नोत्तरं जानामि, तत्प्रश्नस्योत्तरं ददामि अथेदानीं ज्ञानफलानि कर्माणि कृतानि पश्चादुदेष्यंति पश्चादुदयं प्राप्स्यति, कर्मणां विपाकं ज्ञात्वैवमात्मानं त्वमाश्वासय ? भोः शिष्य ! न तु प्रज्ञाप्रकर्षे गर्वं कुर्या इत्यर्थः, प्रज्ञाप्रकर्षेऽयमर्थः कार्यः अथ प्रज्ञाप्रकर्षपक्षे प्रज्ञाहीनत्वेऽथं वदति, येन केनचित्पुरुषेण कस्मिंश्चित्सुगमेऽपि जीवादिप्रश्ने पृष्टः सन्नाहं नाभिजानामि, तन्नूनं मया पूर्व पूर्वभवेऽज्ञानफलानि धर्माचार्यगुरुश्रुतनिंदारूपाणि कृतानि ततोऽहं प्रज्ञाहीनः संजातोऽस्मि अथाज्ञानफलानि कृतानि कर्माण्यपि पश्चादग्रेतनजन्मानि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
30000
986880039990000
सटीकं
॥९५॥