________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०२८॥
CROSROCR9460454004034
निरावरणं वितिमिरं विसुद्धलोगालोगपभावयं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव इरियावहियं कम्मं बंधइ, सुहफरिसं दुसमयठिइयं तं पढमसमए बध्धं, बीयसमए वेइयं, तई| यसमए निजिन्नं से काले अकम्मं वा भवइ. ॥७१ ।। व्याख्या-हे भदंत ! स्वामिन् ! प्रेय्यद्वेषमिथ्या
दर्शनविजयेन जीवः किं फलं जनयति ? तत्र प्रेय्यशब्देन प्रेमरागः, द्वेषः प्रसिद्धः, मिथ्यादर्शनं सं|शयादिभिर्विपरीतमतित्वं, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यद्वेषमिथ्यादर्शनानि, तेषां विजयःप्रेय्य
द्वेषमिथ्यादर्शनविजयस्तेन जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य ! प्रेमद्वेषमिथ्यादर्शनविजयेन जीवो ज्ञानदर्शनचारित्राणामाराधनाये अभ्युत्तिष्टते, सावधानो भवति, अभ्युत्थाय चाष्टविधकर्मणां ग्रंथिं घातिकर्मणां कठिनजालं विमोचनार्थं क्षपयितुमभ्युत्तिष्टते, सावधानो भवति. अथ कर्मग्रंथिविमोचनेऽनुक्रममाह-तत्प्रथमतया यथानुक्रममष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति. क्षपकश्रेणिमारूढः सन् क्षपयति. षोडशकषायाः, नवनोकषायाः, मोहनीयत्रय, एवमष्टाविंशतिविधं मोहनीयकर्म विनाशयति. ततश्चरमसमये यत्क्षपयति तत्क्रममाह-मतिश्रुतावधिमनःपर्यायकेवल
PHHHHHHERE
हा॥१०२८॥
For Private And Personal Use Only