________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तरा
सटीक
॥१०००४
SARAKAASASHURAMGAGES
न्युपाश्रयस्थानानि यस्य स विविक्तशयनासनः, तस्य भावो विविक्तशयनासनता, तया स्त्रीपशुपंडकादिरहितस्थितिनिवासत्वेन जीवः किं जनयति? गुरुराह-हे शिष्य! विविक्तशयनासनतया जीवश्चारित्रगुप्तिं चारित्रस्य रक्षां जनयति. गुप्तचारित्रश्च जीवो विविक्तो विकृत्यादिशरीरपुष्टिकारकवीर्यवृद्धयादिकृद्धस्तुरहित आहारो यस्य स विविक्ताहारः, तादृशः स्यात्. तथा दृढं निश्चलं चरित्रं यस्य स दृढचरित्रः, पुनरत एवेकांतेन निश्चयेन रक्त आसक्त एकांतरतः संयमे सावधानः स्यात्, तथा मोक्षं भावेन मनसा प्रतिपन्न आश्रितो मोक्षभावप्रतिपन्नः, मोक्ष एव मया साध्य इति बुद्धिमान, क्षपकश्रेणिं प्रतिपद्याष्टविधकर्मग्रंथि निर्जरयति क्षपयति. ॥ ३१ ॥ विविक्तशयनासनश्च विनिवर्तनावान् स्यात्, अतो विनिवर्तनायाः फलमाह
॥ मूलम् ॥-विणिवट्टणयाए णं भंते जीवे किं जणयइ? विणिवणयाएणं पावाणं कम्माणं अकरणया अप्भुटेइ, पुवबद्धाण य निजरणया तं नियत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं विईवयइ. ॥ ३२॥ व्याख्या-हे स्वामिन् ! विनिवर्तनया विषयेभ्य आत्मनः पराङ्मुखीभावेन जीवः किं
HOSHARRASTOA UCHES
हा॥१०००॥
94%
For Private And Personal Use Only