________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ९६८ ॥
www.kobatirth.org
निवर्तते तपसा परि समंतात् शुद्धयति कर्ममलापगमान्निर्मलो भवतीत्यर्थः ॥ ३५ ॥ अथ मोक्षफलभृतां गतिमाह —
॥ मूलम् ॥ —खवित्ता पुवकम्माई । संजमेण तवेण य ॥ सङ्घदुक्खपहीणठ्ठा । पक्कमंति महेसिणोत्तिबेमि ॥ ३६ ॥ व्याख्या - महर्षयो महामुनयः संयमेन सप्तदशविधेन, पुनस्तपसा द्वादशविधेन, चशब्दाद् ज्ञानदर्शनाभ्यां च पूर्वकर्माणि पूर्वोपार्जितकर्माणि क्षपयित्वा प्रहीण सर्वदुःखार्थाः संतो मोक्षाभिलाषिणः संतः प्रक्रमंति पराक्रमं कुर्वतीति सिद्धिं गच्छति प्रहोणानि प्रकर्षेण हानिं प्राप्तानि | सर्वदुःखानि यत्र तत्प्रहीणसर्वदुःखं मोक्षस्थानं, तदर्थयं तेऽभिलषंतीति प्रहीणसर्वदुःखार्थाः, मोक्षाभिलाषिण इत्यर्थः प्रहीणसर्वदुःखार्था इति स्थाने सर्वदुःखप्रहोणार्या इति पाठस्तु आर्षत्वात्. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह ॥ ३६ ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मोकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां मोक्षमार्गीयाख्यमष्टाविंशमध्ययनं संपूर्ण. २८.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९६८ ॥