________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९६७ ॥
www.kobatirth.org
ति. वाऽथवा जिनस्य केवलिनस्त्रयोदशे सयोगाख्ये गुणस्थाने, तथाऽयोगाख्ये च चतुर्दशे गुणस्थाने वर्तमानस्य भवति, एतत्पंचविधं चारित्रं भवति कीदृशं चारित्रं ? ' चयरितकरं 'चयानां कर्मराशीनां रिक्तमभावं करोतीत्येवंशीलं चयानां रिक्तकरं तीथकरैराख्यातं, कर्मराशीनामभावकरं, सामायिकादिपंचविधं चारित्रं कर्मक्षयकारकमित्यर्थः ॥ ३३ ॥ अथ तपोभेदमाह -
॥ मूलम् ॥ तवो य दुविहो वृत्तो । बाहिरोभिंतरो तहा ॥ बाहिरो छविहो वुत्तो । एवमप्भिंतरो तवो ॥३४॥ व्याख्या- तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यंतरं, बाह्यं षड्विधं प्रोक्त, एवमिति षड्विधमेवाभ्यंतरमपि तपः प्रोक्तं ॥ ३४ ॥ अथ ज्ञानदर्शनचारित्राणां मध्ये मोक्षमार्गे कस्य कीदृशो व्यापारो वर्तते ? तमाह
॥ मूलम् ॥ - नाणेण जाणई भावं । दंसणेण य सदहइ ॥ चरितेण निगिण्हाइ । तवेण परि| सुझई ॥ ३५ ॥ व्याख्या - ज्ञानेन मतिज्ञानादिना भावान् जोवाजीवादीन् जानाति, च पुनर्दर्शनेन भगवद्वचनं श्रद्धया श्रद्धत्ते सत्यत्वेनांगीकुरुते चारित्रेण त्रिरतिप्रयाख्यानेन निगृह्णाति, विषयेभ्यो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९६७ ॥