SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९२२॥ अथवा जनपदकथां देशकथां करोति, पुनःप्रतिलेखनां कुर्वन् कस्मैचित्प्रत्याख्यानं चेदादाति, पुनः प्रतिलेखनां कुर्वन् परं साधुं वाचयति वाचनां ददाति, वाऽथवा प्रतिलेखनां कुर्वन् चेत्खयमालापादि प्रतिच्छति गृह्णाति, ॥ २९ ॥ ॥ मूलम् ॥-पुढवी आउक्काए । तेऊवाऊवणस्सइतसाणं ॥ पडिलेहणापमत्तो । छण्हंपि वि| राहओ होइ ॥ ३० ॥ व्याख्या-एतानि पूर्वोक्तानि कार्याणि कुर्वन् प्रतिलेखनायां प्रमत्तः प्रमादकर्ता साधुः षण्णामपि कायानां विराधको भवति. तेषां षट्कायानां नामान्याह-पृथ्वीकायः १ अप्कायः २ तेजस्कायः ३ वायुकायः ४ वनस्पतिकायः ५ त्रसकायश्च ६ एतेषां संमर्दकः स्यात्, तत्क- थं विराधको भवति? कुंभकारादिशालायां स्थितस्तत्र प्रमादवशात्प्रतिलेखनायां जलकुंभादिपातनातेन पानीयेन मृत्तिकाग्निवायुकुंथुकादिकास्त्रसाः स्थावराश्च जायंते, तदा षण्णामपि विराधना स्यात्, यदाहाहन्-जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ सासओ अग्गी ॥ तेऊवाऊसहिया । एवं छण्हंपि सहजा उ॥१॥ इति वचनात्. ॥ ३० ॥ RSSISTAAS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy