________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
962
सटीक
॥ अथ पंचविंशतितममध्ययनं प्रारभ्यते ॥
5
॥८८३॥
पूर्वस्मिन्नध्ययने प्रवचनमातर उक्ताः, तास्तु ब्रह्मगुणयुक्तस्य स्युः, तस्माद् ब्रह्मगुणज्ञानाय यज्ञीयाध्ययनं कथ्यते
मुलम् ॥-माहणकुलंमि संभूओ। आसि विप्पो महाजसो ॥ जायाई जमजणंमि । जयघोसित्ति नामओ॥१॥ व्याख्या-वाराणस्यां द्विजो यमलो भ्रातरौ जयघोषविजयघोषावभूतां. तयोरेको जयघोषनामा गंगायां स्नातुं गतः, क्रूरसर्पमंडुकग्रासं दृष्ट्वा प्रवजितः, तद्वार्तामाह-माहणकुलम्मित्ति' ब्राह्मणकुले संभृतो विप्रकुले समुत्पन्नो जयघोष इति नामतो विप्र आसीत्. अत्र हि यद ब्राह्मणकुलसंभृतो विप्र आसीदित्युक्तं, तद् ब्राह्मणजनकादुत्पन्नोऽपि जननीजातिहीनत्वेडब्राह्मणः स्यात, अतो विप्र इत्युक्तं. कीहशो जयघोषः? यमजन्नंमि यमयज्ञे यायाजी. यायजीत्येवं
+ RASHRAWA
A%5C3-45
॥८८३
For Private And Personal Use Only