________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
८४१॥
PRAKAMALAIEX-
S
मनसः प्रवृत्तिः स्यात्, तस्मादेक आत्मा अजितः शत्रुर्दुर्जयो रिपुरनेकदुःखहेतुत्वात्. एवं सर्वेऽप्येते उत्तरोत्तरभेदादेकरिमन्नात्मनि जिते चत्वारः कषायाः, तेषां मीलनात्पंच, पंचवात्मकषायेषु जितेष्विंद्रियाणि पंच जितानि, तदा दश शत्रवो जिताः, आत्मा १ कषायाश्चत्वारः, एवं पंच, पुनः पंचेंद्रियाणि, एवं दशैव. आत्मा, कषायाः, नोकषायाः, इंद्रियाणि च, एते सर्वे शत्रवोऽजिताः संति. तान् सर्वान् शत्रन् यथान्यायं वीतरागोक्तवचसा जित्वाऽहं विहरामि. तेषां मध्ये तिष्टन्नप्यप्रतिबद्धविहारेण विचरामि. अत्र पूर्व हि प्रश्नकालेऽनेकषां सहस्राणामरीणां मध्ये तिष्टसीत्युक्तं, उत्तरसमये तु कषायाणामांतरभेदेन षोडशसंख्या भवंति, नोकषायाणां नवानां मीलनाच्च पंचविंशतिभेदा भवंति. तथात्मेंद्रियाणामपि सहस्रसंख्या न भवति, परंत्वेतेषां दुर्जयत्वात् सहस्रसंख्योक्तेति भावः ॥३८॥
॥ मूलम् ॥–साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं | | मे कह सुगोयमा॥ ३९ ॥ व्याख्या-अस्या अर्थः पूर्ववत्. ॥ ३९॥
॥ मुलम् ॥-दीसंति बहवे लोए। पासबद्धा सरीरिणो ॥ मुक्कपासो लहष्भूओ। कहं सं
WERS
।
H॥८४१॥
For Private And Personal Use Only