SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८२३ ॥ 4X1 छ www.kobatirth.org णामभवन् अवधिज्ञानिनां चतुर्दशशतानि, केवलज्ञानिनां दशशतानि, वैकियलब्धिमतामेकादशशतानि, विपुलमतीनां सार्धत्रीणि शतानि, वादिनां षट्शतानि, अंतेवासिनां दशशतानि सिद्धिं गतानि. आर्यिकाणां विंशतिशतानि सिद्धानि अनुत्तरोपपातिकानां द्वादशशतान्यभवन्. श्रीपार्श्वनाथस्यैषा परिवारसंपदभूत् ततः पार्श्वो भगवान् देशोनानि सप्ततिवर्षाणि केवलपर्यायेण विहृत्यैकं वर्षशतं सर्वायुः परिपाल्य सम्मेतशिखरे ऊर्ध्वस्थित एवाधः कृतपाणिर्निर्वाणमगमत्. तत्कलेवरसं|स्कारोत्सवः शक्रादिभिस्तत्रैव विहितः ॥ इति श्रीपार्श्वनाथचरित्रं ॥ अथाग्रे सूत्रं लिख्यते ॥ मूलम् ॥ - जिणे पासित्ति नांमेणं । अरहा लोगपूईए ॥ संबुद्धपाय सबन्नू । धम्मतित्थयरे जिणे ॥ १ ॥ व्याख्या - पार्श्व इति नामाऽर्हन्नभूत्तीर्थकरोऽभूत् कीदृशः सः ? जिनः परीषहोपसर्ग| जेता, रागद्वेषजेता वा पुनः कीदृशः स पार्श्वजिनः ? लोकपूजितो लोकेन त्रिजगताऽर्चितः पुनः कथंभूतः सः ? ' संबुद्धप्पा' संबुद्धात्मा तत्त्वावबोधयुक्तात्मा पुनः कीदृशः स पार्श्वः ? सर्वज्ञः पुनः कीदृशः पार्श्वः ? धर्मतीर्थकरः, धर्म एव भवांबुधितरणहेतुत्वात्तीर्थ, धर्म तीर्थं करोतीति धर्मतीर्थकरः. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ।। ८२३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy