________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
CA%
८१७॥
SECTION
A5%
श्चक्रवर्ती वंदित्वा स्वनगाँ प्रविष्टः, अन्यदा स कनकप्रभनामा चक्रवर्ती तां तीर्थंकरदेशनां भावयन जातजातिस्मरणः पूर्वभवान् दृष्ट्वा भवविरक्तचित्तः प्रवजितः. इतश्च स क्रमेण विहरन क्षीरखनाटव्यां क्षीरपर्वते सूर्याभिमुखं कायोत्सर्गेण स्थितः,
इतश्च स चांडालवनेचरजीवस्ततो नरकादुम्धृत्य तस्यामेवाटव्यां क्षीरपर्वतगुहायां सिंहो जातः. स च भ्रमन् कथमपि संप्राप्तस्तस्य मुनेः समीपे, ततः समुच्छलितपूर्ववैरेण तेन विनाशितः स मनिः समाधिना कालं कृत्वा निबद्धतीर्थकरनामकर्मा प्राणतकल्पे महाप्रभे विमाने उत्पन्नो विंशतिसागरोपमायुदेवः. सोऽपि सिंहो बहुलसंसारं भ्रांत्वा कर्मवशाद् ब्राह्मणो जातः. तत्रापि पापोदयवशेन जातमात्रस्य तस्य पितृमातृभ्रातृप्रमुखः सकलोऽपि स्वजनवर्गः क्षयं गतः, स च दयापरेण लोकेन जीवितः. संप्राप्तयौवनोऽपि कुरूपो दुर्भगो दुःखेन वृत्ति कुर्वन् वैराग्यमुपगतो वने कंदमूलफलाहारस्तापसो जातः, करोति च बहुप्रकारमज्ञानतपोविशेषं. इतश्च स कनकप्रभचक्रवर्तिदेवः प्राणतकल्पाच्चैत्रकृष्णचतुर्थ्यां च्युत्वा इहैव जंबूद्वीपे भरते क्षेत्रे काशीदेशे वाराणस्यां नगर्यामश्व
C4%
AA5%
154
॥८१७॥
For Private And Personal Use Only