________________
Shri Maharan Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
-
HOCIACOCKASSAGE
तपोविधानेन बहलब्धिसंपन्नोऽसौ गतः सुकच्छविजयं. तत्रा प्रतिबद्धविहारेण विहरन् स संप्राप्तो || सटीक ज्वलनगिरिसमीपं. दिने चास्तमिते तत्रैव कायोत्सर्गेण स्थितः. प्रभाते ततश्चलितोऽटव्यां प्रविष्टः. इतश्च स महोरगनारकः पंचमपृथिवीत उध्धृत्य कियंतं संसारं भ्रांत्वा तस्यैव ज्वलनगिरेः समीपे भीमाटव्यां जातो वनेचरश्चांडालः. तेनाखेटकनिमित्तं निर्गच्छता दृष्टः प्रथमं स साधुः, ततः पूर्व
भववैरवशतोऽपशकुनोऽयमिति कृत्वा बाणेन विद्धः, तेन विधुरोकृतवेदनो विधिना मृत्वा स वज्रP| नाभो मुनिर्मध्यप्रैवेयके ललितांगो नाम देवो जातः. सोऽपि चांडालवनेचरस्तं विपन्नं महामुनिं ।
दृष्ट्वा हो! अहं महाधनुर्धर इति मन्यमानो निकाचितक्रूरकर्मा कालेन मृत्वा सप्तमे नरके नारकत्वेन समुत्पन्नः. वज्रनाभदेवस्ततश्च्युत इहैव जंबूद्वीपे पूर्व विदेहे पुराणपुरे कुशलबाहुराज्ञः सुदर्शनादेव्याः कनकप्रभो नाम पुत्रो जातः, स च क्रमेण चक्रवर्ती जातः. अन्यदा प्रासादोपरि संस्थितेन तेनाकाशे निर्गच्छन् देवसंघातो दृष्टः. तद्दर्शनादेव विज्ञातजगन्नाथतीर्थकरागमः स्वयं ४
IN८१६॥ निर्गतस्तद्वंदनाथ. वंदित्वा च तत्रोपविष्टस्य तस्य पुरतो भगवता देशना कृता. तां च श्रुत्वा हृष्ट
CORROSHARE
For Private And Personal Use Only