________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
८०७॥
COLUSICALCORRENC3%-15
स्मादावामगंधनकुलोत्पन्नसर्पतुल्यौ भवाव इति भावः. तस्मात्त्वमिदानी संयमे चारित्रे निभृतो नि
सटीक श्चलः सन् चर? साधुमार्गे विचरेत्यर्थः ॥४४॥
॥ मूलम् ॥-जइ तं काहिसि भावं । जा जा दिच्छसि नारीओ॥ वायाविद्धोव हढो। अट्टिअप्पा भविस्ससि ॥४५॥ व्याख्या-हे मुने! यदि स्वं भावं भोगाभिलाषं करिष्यसि, यां यां नारी द्रक्ष्यसि, अर्थाद्यां यां सुरूपां नारी दृष्ट्वा भोगाभिलाषं करिष्यसि, तदा त्वमस्थिरात्माऽस्थिरचित्तो | भविष्यसि. क इव? वाताविद्धो हठ इव. हठो वनस्पतिविशेषः शेवालः, यथा पानीयोपरि शेवालो वातेन प्रेरितोऽस्थिरो भवति, तथा त्वमप्यतिरूपवती कामिनों दृष्ट्वा कामाभिलाषी सन्नस्थिरचित्तो। भविष्यसि. ॥४५॥
॥मलम् ॥-गोवालो भंडपालो वा । जहा तद्दवनिस्सरो॥ एवं अणिस्सरो तंपि । सामन्नस्स भविस्ससि ॥४६॥ व्याख्या-हे मुने! तथा त्वमपि श्रामण्यस्य साधुधर्मस्यानीश्वरो भविष्यसि,
im८०७॥ भोगाभिलाषकरणेन संयमफलस्याऽभोक्ता भविष्यसि. क इव? गोपाल इव, वाऽथवा भांडपाल इव.
MCOLOGICAL-
HS
For Private And Personal Use Only