________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥७८९॥
-
-
विजयः? राजलक्षणसंयुक्तः. अत्र पुनः सौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थ.
॥ मूलम् ॥-तस्स भजा सिवानाम । तीय पुत्ते महायसे ॥ भयवं अरिट्टनेमित्ति । लोगनाहे दमीसरे ॥४॥ व्याख्या-तस्य समुद्रविजयस्य राज्ञः शिवानाम्नी भार्यासीत्. तस्याः शिवादेव्याः पको भगवानैश्वर्यधारी अरिष्टनेमिरासीत्. चतुर्दशस्वप्नदर्शनानंतरमेकमरिष्टरत्नमयं रथचक्रं सा ददर्श, तेनारिष्टनेमिरिति नाम प्रदत्तं. कथंभृतोऽरिष्टनेमिः ? महायशा महाकीर्तिः, पुनः कीदृशोऽरिष्टनेमिः? लोकनाथश्चतुर्दशरज्जुप्रमाणलोकप्रभुः पुनः कीदृशोऽरिष्टनेमिः ? दमीश्वरः, कुमारत्वेऽपि येन कंदपों जितः. तस्मादमिनां जितेंद्रियाणामीश्वरो दमीश्वरः ॥४॥
॥ मूलम् ॥-सोरिट्टनेमिनामो उ । लक्खणस्सरसंजुओ ॥ अट्ठसहस्सलक्खणधरो। गोयमो कालगच्छवी ॥५॥व्याख्या-अथारिष्टनेमेवर्णनमाह-सोऽरिष्टनेमिनामा भगवानष्टसहस्रलक्षणधरो वर्तते, अष्टभिरधिकं सहस्रमष्टसहस्रं, लक्षणानामष्टसहस्रं लक्षणाष्टसहस्रं, तद्धरतीति लक्षणाटसहस्रधरः. अष्टसहस्रलक्षणानि धरतीति वाऽष्टसहस्रलक्षणधरः. पुनः कीदृशः? लक्षणवरसंयुतः,
X
॥७८९॥
For Private And Personal Use Only