________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
W
उत्तरा
सटोक
॥७४८॥
RIHARIES
किलेसइत्ता । न पारए होइ हु संपराए ॥४१॥व्याख्या-स पूर्वोक्तः पंचसमितिरहितो मुन्याभासश्चिरं मुंडरुचिर्भूत्वा, आत्मानमपि चिरं क्लेशयित्वा क्लेशे पातयित्वा, हु इति निश्चयेन संपराए संसारे पारगो न भवति. कीदृशः सः? अस्थिरतोऽस्थिराणि व्रतानि यस्य सोऽस्थिरव्रतः. पुनः कीदृशः सः? तपोनियमभ्रष्टः. यः कदापि तपो न करोति, तथा पुनर्नियममभिग्रहादिकं च न करोति, केवलं द्रव्यमुंडो भवति, स संसारस्य पारं न प्राप्नोतीत्यर्थः. ॥४१॥
॥ मूलम् ॥-पोल्ले च मुट्ठी जह से असारो। अयंतिए कूडकहावणे व ॥ राढामणी वेरुलियप्पगासे । अमहग्घए होइ हु जाणएसु ॥ ४२ ॥ व्याख्या-स पूर्वोक्तमुंडरुचिरसारो भवति, अंतःकरणे धर्माऽभावाद्विक्तोऽकिंचित्करो भवति. स क इव? पोल्लो मुष्टिरिव, यथा रिक्तो मुष्टिरसारो मध्ये शुषिर एव. तथा स मुंडरुचिः कूटकार्षापण इवाऽसत्यनाणकमिवाऽयंत्रितो भवति, न यंत्रितोऽयंत्रितोऽनादरणीयो निर्गुणत्वादुपेक्षणीयः स्यादित्यर्थः. उक्तमर्थमांतरन्यासेन दृढयति-ह यस्मात्कारणात् राढामणिः काचमणिः 'जाणएसु' इति ज्ञातृकेषु मणिपरीक्षकनरेषु वैडूर्यप्रकाशोऽमहर्घको
P॥७४८॥
For Private And Personal Use Only