________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
॥६१४॥
गतः. ततश्च्युतो रत्नपुरे श्रेष्टिसुतो जिनधों जातः. स च जिनवचनभावितमनाः सम्यक्त्वमूलं द्वादशविधं श्रावकधर्म पालयन् जिनेंद्रपूजारतः कालं गमयति. इतश्च स नागदत्तः प्रियाविरहदुःखितो भ्रांतचित्त आर्तध्यानपरिक्षिप्तशरीरो भूत्वा बहुतिर्यग्योनिषु भ्रांत्वा ततः सिंहपुरे नगरेऽग्निशर्मनामा द्विजो जातः. कालेन त्रिदंडिव्रतं गृहीत्वा द्विमासक्षपणरतो रत्नपुरमागतः. तत्र हरिवाहनो नाम राजा तापसभक्तः, तेन तपस्व्यागतः श्रुतः, पारणकदिने राज्ञा निमंत्रितः, स गृहमागतः. | अत्रांतरे स जिनधर्मनामा श्रावकस्तत्रागतः. तं दृष्ट्वा पूर्वभवजातवैरानुभवेन रोषारुणलोचनेन मुनिनैवमुक्तं राज्ञः, यदा त्वं मां भोजयसि तदास्य श्रेष्टिनः पृष्टौ स्थालं विन्यस्य मां भोजय? अन्यथा नाहं भोक्ष्ये. राज्ञोक्तमसौ श्रेष्टी महान् वर्तते, ततोऽपरस्य पुरुषस्य पृष्टौ त्वं भोजनं कुरु ? स प्राहैतस्य पृष्टावेव भोजनं करिष्ये, नापरस्येति. राज्ञा तापसानुरागेण तत्प्रतिपन्नं. राज्ञो वचनात् श्रे. ष्टिना पृष्टो स्थालमारोपितं, तापसेन तत्पृष्टी दाहपूर्वकं भोजनं कृतं. श्रेष्टिना पूर्वभवदुष्कर्मफलं म-1 PIमोपस्थितमिति मन्यमानेन तत्सम्यक् सोढमिति. स्थालीदाहेन तत्पृष्टौ क्षतं जातं. ततः स ता
In६१४॥
For Private And Personal Use Only