SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६०९ ॥ www.kobatirth.org नैवमादिष्ट, योऽसिताक्षं यक्षं जेष्यति स एतासां भर्ता भविष्यति ततस्त्वमेताः परिणयेति नृपेणोके कुमारेण तथेति प्रतिपन्नं राज्ञा महामहः पूर्वकं विवाहः कृतः, कंकणं कुमारकरे बद्धं, सुप्तश्च ताभिः सार्धं रतिभवने कुमारः पल्यंकोपरि. निद्राविगमे चात्मानं भूमौ पश्यति किमेतदिति चिंतित - वांश्च, करबद्धं कंकणं च न पश्यति ततः खिन्नमनाः कुमारस्ततो गंतुं प्रवृत्तः. अरण्यमध्ये च गिरिवरशिखरे मणिमयस्तंभप्रतिष्टितं दिव्यभवनं दृष्टं. कुमारेण चिंतितमिदमपींद्रजालप्रायं भविष्यतीति. तदासन्ने यावतुं प्रवृत्तः कुमारस्तावत्तद्भवनांतः करुणस्वरेण रुदंत्या एकस्या नार्याः शब्दं श्रुतवान्. प्रविष्टस्तद्भवनांतः सप्तमभूमिमारूढः रुदंत्या तत्रैकया कन्यया भणितं कुरुजनपदनभस्तलमृगांक - सनत्कुमार! त्वं भवांतरेऽपि मम भर्ता भूया इति वारंवारं भणंती पुनर्गाढं रोदितुं प्रवृत्ता. ततो रुदंत्यैव तयासनं दत्तं तत्रोपविश्य कुमारस्तां पृष्टवान्, सनत्कुमारेण सह तव कः संबंधः ? येन त्वं तमेवं स्मरसि सा प्राह मम स मनोरथमात्रेण भर्ता. कथमिति कुमारेणोक्ते सा प्राह, अहं हि साकेत पुरस्वामिसुरथनामनरेन्द्र भार्याचंद्रयशापुत्र्यस्मि. अन्यदाहं यौवनं प्राप्ता, पित्रा च मत्कृतेऽनेकरा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६०९॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy