________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
उत्तरा
सटोकं
-
-
-
॥ मूलम् ॥-चइत्ता भारहं वासं । चक्कवट्टी महड्डिए ॥ पवजमप्भुवगओ। मघवं नाम महाजसो ॥ ३६॥ व्याख्या-पुनर्मघवनामा तृतीयचक्रवर्ती भारतं क्षेत्रं त्यक्त्वा प्रव्रज्यां दीक्षामभ्युगतश्चारित्रं प्राप्तः. कोदृशो मघवा? महर्द्धिकश्चतुर्दशरत्ननवनिधानधारको वैक्रियार्द्धधारी वा. पुनः की| दृशः? महायशा विस्तीर्णकीर्तिः ॥ ३६॥ अत्र मघवाख्यस्य चक्रिणो दृष्टांतः
इहैव भरतक्षेत्रे श्रावस्त्यां नगया समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवनामा चक्री समुत्पन्नः. स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरतक्षेत्रस्तृतीयश्चक्रवर्ती जातः. सुचिरं राज्यमनुभवतस्तस्यान्यदा भवविरक्तता जाता. स एवं भावयितुं प्रवृत्तः,येऽत्र प्रतिबंधहेतवो रमणीयाः पदार्थास्तेऽस्थिराः, उक्तं च-हियइच्छिया उदारा । सुआ विणीया मणोरमा भोगा ॥ विउला लच्छी देहो। निरामओ दीहजीवित्तं ॥१॥ भवपडिबंधनिमित्तं । एगाइवत्थु न वरं सवपि ॥ कइवयदिणावसाणे । सुमिणोभोगुव न हि किंचि ॥ २ ॥ ततोऽहं धर्मकर्मण्युद्यमं करोमि, धर्म एव भवांतरानुगामी. एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवा चक्री
-
-
-
॥६०३॥
-
-
For Private And Personal Use Only