________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmandir
www.kobarth.org
सटीक
उत्तरादष्टापदसदृशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः, चतसृषु दिक्षु पुरुषास्तद्गवेषणाय प्रेषिताः,
ते सर्वत्र परिभ्रम्य समायाताः, ऊचुश्च स्वामिन् ईदृशः पर्वतः कापि नास्ति, जन्छना भणितं यद्यवं ॥५९५॥४
शवयं कुर्म एतस्यैव रक्षा. यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः शठाश्च नरा भविष्यंति. अभिनवकारणा
त्पूर्वकृतपरिपालनं श्रेयः. ततश्च दंडरत्नं गृहीत्वा समंततोऽष्टापदपाश्वेषु जन्हुप्रमुखाः सर्वेऽपि कुमा| राः खातुं लग्नाः. तच्च दंडरत्नं योजनसहस्र भित्वा प्राप्तो नागभवनेषु, तेन तानि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयंतो गता नागराजज्वलनप्रभसमीपे, कथितः स्वभवनविदारणवृत्तांतः. सोऽपि संभ्रांत उत्थितोऽवधिना ज्ञात्वा क्रोधोध्धुरः समागतः सगरसुतसमीपं, भणितवांश्च भो भो किं भवद्भिदडरत्नेन पृथ्वी विदार्यास्मद्भवनोपवद्रवः कृतः? अविचार्य भवद्भिरेतत्कृतं. यत उक्तं
अप्पवहाए नूणं । होइ बलं उत्तणाण भुवर्णमि ॥ णियपक्खबलेणं चिय । पडइ पयंगोपईवंमि॥१॥ ततो नागराजोपशमननिमित्तं जन्हुना भणितं,भो नागराज! कुरु प्रसाद, उपसंहर क्रोधसभरं, क्षमस्वास्मदपराधमेकं, न ह्यस्माभिर्भवतामुपद्रवनिमित्तमेतत्कृतं, किंत्वष्टापदचैत्यरक्षार्थमेषा परिखा
For Private And Personal Use Only