SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीक ॥५९४॥ न जितशत्रुराज्ञा निजे राज्येऽजितकुमारः स्थापितः, सगरश्च यौवराज्य स्थापितः. सहोदरसुमित्रस दरसुमित्रस- हितेन जितशत्रुनृपेण दीक्षा गृहीता. अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता. सगरस्तूत्पन्नचतुर्दशरत्नः साधितषखंडभरतक्षेत्रो राज्यं पालयति. तस्य पुत्राः षष्टिसहस्रसंख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्टो जन्हुकुमारो वर्तते. अन्यदा जन्हुकुमारेण कथंचिरसगरः संतोषितः. स उवाच, जन्हुकुमार! यत्तव रोचते तन्मार्गय ? जन्हुरुवाच तात ममास्त्ययमभिलाषः, यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वीं परिभ्रमामि. सगरचक्रिणा तत्प्रतिपन्नं. प्रशस्ते मुहूर्ते सगरचक्रिणः समीपात्स निर्गतः सबलवाह. नोऽनेकजनपदेषु भ्रमन् प्राप्तोऽष्टापदपर्वते. सैन्यमधस्तान्निवेश्य स्वयमष्टापदपर्वतमारूढः. दृष्टवां| स्तत्र भरतनरेंद्रकारितं मणिकनकमयं चतुर्विशतिजिनप्रतिमाधिष्टितं स्तूपशतसंगतं जिनायतनं. तत्र जिनप्रतिमा अभिवंद्य जन्हकुमारेण मंत्रिणः पृष्टं, केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितं? मंत्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जन्हुकुमारोऽवदत्, अन्यः कश्चिद ५९४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy