________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
सटोक
॥५६९।।
1345454546435
भुंक्ते इत्यर्थः. पुनर्यः सामुदायिकं, समुदाये भवं सामुदायिक, गृहाद् गृहाद् गृहीतं भैक्ष्यं नेच्छति न वांछति. पुनयों गृहिनिषद्यां, गृहिणो निषद्या गृहिनिषद्या, गृहस्थस्य गृहे गत्वा पल्यंकादिकं वायत्यारोहयति, मंचमंचिकापीठिकादिषु तिष्टतीत्यर्थः, स पापश्रमण उच्यत इति. ॥ १९॥
॥ मूलम् ॥-एयारिसे पंचकुसीलसंवुडे । रूवंधरे मुणिपवराण हिहिमे ॥ एयंसि लोए विसमेव गरहिए । न से इहं नेव परंमि लोए ॥ २०॥ व्याख्या-एतादृशो रूपधरो मुनिवेषधारी, स इहास्मिन् लोके न, तथा परंसि परस्मिन् लोकेऽपि न.स गृहस्थोऽपि न भवति, साधुरपि न भवति, उभयतोऽपि भ्रष्ट इत्यर्थः. स कीदृशः? पंचकुशीलसंवृतः, पंच च ते कुशीलाश्च पंचकुशीलास्तद्वदसंवृतोऽजितेंद्रियः, अत्र प्राकृतत्वादकारलोपः, अथवा पंचकुशीलैः संवृतःसहितः, यादृशा जिनमते पंच कुशीलोस्तन्मध्यवर्तीत्यर्थः. यदुक्तं-ओसन्नो पासत्थो। होइ कुसीलो तहेव संसत्तो ॥ अहछंदोवि य एए । अवंदणिज्जा जिणमयंमि ॥१॥ पापश्रमणोऽप्यवंदनीय एव. पुनः कीदृशः? मुनिप्रवराणां प्रधानमुनीनां मध्येऽधः स्थितः स पापश्रमण एतस्मिन् लोके विषमिव गर्हितो विषमिव नियो वि
॥ ५६९॥
For Private And Personal Use Only