________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CO
उत्तरा
सटोक
C
॥५६८॥
A
5ॐॐॐॐॐ
भ्यो ग्लानादिभ्यो ददति, अस्मभ्यं च वदति तपः कुर्वत्वित्यादि गुरूणां दूषणं दत्वा पृथग्भवति.पुनर्यः परपाखंडान् सेवते इति परपाखंडसेवकः, परेषु पाखंडेषु मृदुशय्यादिसुखं दृष्ट्वा तान् सेवते. पुनयों गाणंगणिको भवति, गणाद्गणं षण्मासाभ्यंतर एव संक्रामतीति गाणंगणिकः, अत एव दुर्भूतो दुराचारतया निंदनीय इत्यर्थः, स पापश्रमण उच्यते. ॥ १७ ॥
॥ मूलम् ॥—सयं गेहं परिचज । परगेहंसि वावडे ॥ निमित्तेण य ववहरई। पावसमणित्ति वुच्चई॥१८॥व्याख्या-यःपुनःस्वयं स्वकीयं गृहं परित्यज्य दीक्षां गृहीत्वा पूर्वमेकं त्यक्त्वा परस्यान्यस्य गृहस्थस्य गृहे परगृहे व्याप्रियते, आहारार्थी सन् तत्कार्याणि कुरुते. पुनयों निमित्तेन शुभाशुभकथनेन व्यवहरति द्रव्यमर्जयति, अथवा गृहस्थादिनिमित्तं व्यवहरति, क्रयविक्रयादिकं कुरुते, सपापश्रमण इत्युच्यते. ॥१८॥
॥ मूलम् ॥-सन्नाइपिंडं जेमेई। निच्छा सामुदाणिय ॥ गिहिनिसिजं च वाहेइ । पावसमणित्ति वुच्चई ॥ १९ ॥ व्याख्या-यः पुनः स्वज्ञातिपिंडं वकीयबंधुभिर्दत्तमाहारं भुंक्त, रागपिंडं
॥५६८॥
For Private And Personal Use Only