________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५४४ ॥
www.kobatirth.org
समुप्पज्जिज्जा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालीयं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदियाइं मणोहराई मणोरमाइं आलोइजा निज्झाइजा ॥ ४ ॥ व्याख्या - स निग्रंथो भवति, स इति कः ? यः स्त्रीणां मनोहराणि मनोहरंति दृष्टमात्राणि चित्तमाक्षिपंतीति मनोहराणि पुनर्मनोरमाणि मनो रमत्यनुचिंत्यमानान्याह्लादयंतीति मनोरमाणि, ईशानींद्रियाणि नयनवदनजघनवक्षःस्थलनाभिकक्षादीनिप्रत्यालोकयित्वा समंताद् दृष्ट्वा निध्याता, नितरां ध्याता निध्याता, दर्शनादनंतरमतिशयेन चिंतयिता यो न भवेत् स निग्रंथो भवति इत्युक्ते शिष्यः पृच्छति, तत्कथमिति चेदाचार्य आह- हे शिष्य ! निग्रंथस्य खलु निश्चयेन स्त्रीणां पूर्वोक्तानींद्रियाण्यासमंताद्विलोकयतः, अथवा ईषदपि लोकयतः पश्यतो नितरां ध्यायमानस्यात्यंतं चिंतयतः, स्त्रीणामिंद्रियेषु दृाष्ट लगयित्वा स्थितस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका|दयो दोषा उत्पयंते. तस्मात्खलु निश्चयेन निग्रंथः स्त्रीणां मनोहराणि मनोरमाणींद्रियाणि नालोकयिता न समंताद् दृष्टा, अथवा नेषदपि दृष्टा, न च तानींद्रियाणि निध्याता नितरां चिंतयिता भ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ५४४ ॥