________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटोकं
॥५३६।।
SADASARSWAS
बंभचेरसमाहिठाणा पन्नता, जे भिक्खू सुच्चा निसम्म संजमबहले संवरबहले समाहिबहले गुत्ते गुत्तिदिए गुत्तभयारी सया अप्पमत्ते विहरिजा ॥ व्याख्या-श्रीसुधर्मास्वामी स्खशिष्यं जंबूस्वामिनं प्राह-हे आयुष्मन् ! मे मया श्रुतं, तेणं इति तेन भगवता ज्ञानवता तीर्थकरेणाख्यातं,श्रीमहावीरेण | स्वामिनोक्तं, आसन्नत्वात्तस्यैव ग्रहणं. पुनरिह श्रीजिनशासने स्थविरैर्गणधरैर्भगवद्भिर्माहात्म्यवद्भिस्तीर्थकरोक्तार्थधारणशक्तिमद्भिर्दश ब्रह्मचर्यसमाधिस्थानान्युक्तानि, ब्रह्मचर्यस्य कारणान्युक्तानि.कोऽर्थः? ममैवैषा बुद्धिर्नास्ति. किंतु तीर्थकरैः पुनर्गणधरैर्गोतमादिभिः स्वापेक्षया वृद्धैरेवमुक्तं, तथैव मयोच्यते. यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा शब्दतः श्रवणे धृत्वा, निशम्यार्थतो मनस्यवधार्य संयमबहुलः सन्, बहुलःप्रधानप्रधानतरस्थानप्राप्त्योत्तमः संयमो यस्य स बहुलसंयमो वर्धमानपरिणामचारित्रः सन् विहरेत्. पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा संवरबहुलः, संवर आश्रवनिरोधः, स बहुलो यस्य स संवरबहुलः, प्रधानाश्रवद्वारनिरोधः, पुनःसमाधिबहुलो बहुलसमाधिः प्रधानचित्तस्वास्थ्ययुक्तः सन् विहरेत्. पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा भिक्षुर्गुप्तो मनोवा
॥५३॥
For Private And Personal Use Only