________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा॥ ५२६॥
HERERAKॐ
॥मूलम् ॥-छिन्नं सरं भोममंतरिक्खं । सुविणं लक्खणदंडवच्छविजं ॥ अंगवियारं सरस्स वजयं । जो विजाहिं न जीवई स भिक्खू ॥७॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स कः? य इत्यादिभिर्विद्याभिन जीवत्याजीविका न करोति. ताः का विद्याः? छिद्यते इति छिन्न, वस्त्रादीनां मूषकादिना दशनं, अग्न्यादिप्रज्वलनं, कज्जलकर्दमादिना लिंपनं स्फटनमित्यादिशुभाशुभविचारसूचिका विद्या छिन्नमित्युच्यते. यदा हि वस्त्रे नूतने किंचिद्विकारे सति विचारः क्रियते, यदुक्तं रत्नमालायां-निवसंत्यमरा हि वस्त्रकोणे । मनुजाः पार्श्वदशांतमध्ययोश्च ॥ अपरेऽपि च रक्षसां त्रयोंशाः । शयने चासनपादुकासु चैवं ॥१॥ कजलकर्दमगोमयलिप्ते । वाससि दग्धवति स्फटिते वा ॥ चिंत्यमिदं नवधा विहितेऽस्मि-निष्टमनिष्टफलं च सुधीभिः ॥२॥ भोगप्राप्तिर्देवतांशे नरांशे। पुत्राप्तिः स्याद्राक्षसांशे च मृत्युः ॥ प्रांते सर्वांशेऽप्यनिष्टं फलं स्यात् । प्रोक्तं वस्त्रे नूतने साध्वसाधु ॥३॥ वस्त्रपरिधानशुभाशुभफलसूचकयंत्रम्
CSCA-
KA-NCCCCCCCCC
॥ ५२६॥
For Private And Personal Use Only