________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥५१४॥
प्रमोदंते हर्षिता भवंति, मनस्येवं जानंत्येते ज्वलंतु, वयमदग्धास्तिष्टामः. कथंभृतास्ते? रागद्वेषयोवशं गता रागद्वेषग्रस्ताः ॥ ४२ ॥ | ॥ मूलम् ॥-एवमेव वयं मूढा । कामभोगेसु मुच्छिया ॥ डज्झमाणं न बुज्झामो । रागदोसग्गिणा जगं ॥ ४३ ॥ व्याख्या-एवममुनैव दृष्टांतेन वयं मूढा अविवेकिनः कामभोगेषु मूर्छिताः संतो रागद्वेषाग्निना जगदह्यमानं न बुध्यामहे न जानीमहे वयमिति बहुवचनाहहवोऽस्मादृशा जीवा इति ज्ञापनार्थ. ॥ ४३ ॥ । ॥ मूलम् ॥-भोगे भुच्चा वमित्ता य । लहभूय विहारिणो ॥ आमोयमाणा गच्छंति । दिया कामकमा इव ॥ ४४ ॥ व्याख्या-धन्यास्ते जीवा इत्यध्याहारः. ये जीवा भोगान् भुक्त्वा, पुनरुत्तरकाले वांत्वा त्यक्त्वा, अर्थात् साधवो भूत्वा, आमोदमानाः साध्वाचरणीयानुष्ठानेन संतुष्टाः संतो गच्छति विचरंति, वांछितं स्थानं ब्रजंति, ते जीवाः, के इव? कामक्रमा द्विजा इव पक्षिण इव, कामं स्वेच्छया क्रमो विचरणं येषां ते कामक्रमाः स्वेच्छाचारिणः, यथा द्विजाः स्वेच्छया अप्रतिब
FOLOCA-CHANCHAR
4304
F॥५१४॥
For Private And Personal Use Only