________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ५०१ ॥
www.kobatirth.org
दिक्षु परिवारिते परिवेष्टिते, वागुरादौ पतितमृगवद् दुःखितौ खः ॥ २१ ॥ तदा पुरोहितोऽपृच्छत्॥ मूलम् ॥ केण अज्झाहओ लोओ। केण वा परिवारिओ । का वा अमोहा वृत्ता । जाया चिंतापरो हु मे ॥ २२ ॥ व्याख्या - हे पुत्रौ ! केन लोकोऽभ्याहतः ? वाऽथवा केनायं लोकः परिवेष्टितः ? वाऽथवा का अमोघा अवश्यं भेदिका शस्त्रधारोक्ता ? हे पुत्रावहमिति चिंतापरो भवामि ॥ २२ ॥ तदा पुत्र प्रत्येकं प्रश्नानामुत्तरं वदतः
॥ मूलम् ॥ मच्चुणाज्झाहओ लोओ । जराए परिवारिओ | अमोहा रयणी बुत्ता । एवं ताय वियाह ॥ २३ ॥ व्याख्या - हे तात! त्वमेवममुना प्रकारेण जगज्जानीहि ? एवमिति कथं ? तदाह—लोकोऽयं मृगरूपो मृत्युना व्याधेनाभ्याहतः पीडितः, स च मृत्यूर्हि सर्वस्य जंतोः पृष्टे धावति. जरया वृद्धत्वेन परिवेष्टितः जीर्यते शरीरमनयेति जरा, पलितमात्रमिह जरा नोच्यते, बलवीर्यपराक्रमाणां हानिरेव जरा, तथा सर्वं जगत् परिवेष्टितमस्ति तथैव मृत्युर्जगजंतुं घातयति. अमोघः शस्त्रधारा रात्रय उक्ताः, न केवलं रात्रय एव भवंति, किंतु दिनान्यपि भवंति, परमत्र
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
।। ५०१ ॥