________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५०० ॥
www.kobatirth.org
रोतीत्यर्थः यदुक्तं वेदांतेऽपि - कर्मबद्धो भवेज्जीवः । कर्ममुक्तो भवेच्छिवः ॥ इति ॥ १९ ॥ ॥ मूलम् ॥ - जहा वयं धम्ममयाणमाणा । पावं पुरा कम्ममकासि मोहा ॥ ओरुज्झमाणा परिरक्खियंता । तं नेव भुज्जोवि समायरामो ॥ २० ॥ व्याख्या - हे तात! यथा पुरा पूर्वं मोहात्तत्वस्याज्ञानादावां पापं पापहेतुकं कर्माकार्ष्व. आवां किं कुर्वाणो ? धर्मं सम्यक्त्वादितत्वमजानानो. पुनः कथंभृतौ ? अवरुध्यमानौ गृहान्निःसरणमप्राप्यमाणो. पुनरावां कथंभृतौ ? परिरक्ष्यमाणौ साधुदर्शनाद्वार्यमाणौ पुरा ईदृशावावामज्ञाततत्वौ पापकर्मपरायणावभूव तत्पापं कर्म भूयः पुनर्नैव समाचरावो न कुर्व इत्यर्थः ॥ २० ॥ ॥ मूलम् ॥ अज्झाहयंमि लोगंमि । सबओ परिवारिए || अमोहाहिं पडतीहिं । गिहिंसि न रई लभे ॥ २१ ॥ व्याख्या - भो तात ! अस्मिन् लोके जगत्यामावां गृहे गृहवासे रतिं न लभावहे. कथंभूते लोके ? अमोघाभिरवश्यं भेदिकाभिः शस्त्रधाराकाराभिः पतंतीभिरागच्छंतीभिः शस्त्रधाराभिः कदर्थिते. पुनः कथंभृते लोके ? अभ्याहते आभिमुख्येन पीडिते . पुनः कथंभूते लोके ? सर्वतः सर्वासु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५०० ॥