________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४८४॥
रस्ततश्च्युत्वा कुरुजनपदे इषुकारपुरे अवतीर्णास्तत्र प्रथम इषुकारराजा जातः. द्वितीयस्तस्यैव राज्ञः पट्टदेवी कमलावती जाता, तृतीयस्तस्यैव राज्ञो भृगुनामा पुरोहितः संवृत्तः, चतुर्थस्तस्यैव पुरोहितस्य भार्या संवृत्ता. तस्या वासिष्टं नाम गोत्रं, यशा इति नाम जातं. स च भृगुपुरोहितः प्रकामं संतानलाभमभिलषति, अनेकदेवोपयाचनं कुरुते, नैमित्तिकान प्रश्नयति. तो द्वावपि पूर्वभवगोपदेवौ वर्धमानावधिना एवं ज्ञातवंती, यथा आवामेतस्य भृगुपुरोहितस्य पुत्रौ भविष्यावः. ततः श्रमणरूपं | कृत्वा द्वावपि भृगुगृहे समायातौ, सभार्येण भृगुणा वंदितो, सुखासनस्थौ धर्म कथयतः. तयोरंतिके सभार्येण भृगुणा श्रावकव्रतानि गृहीतानि. पुरोहितेन कथितं भगवन् ! अस्माकमपत्यं भविष्यति न वा? इति. साधुभ्यामुक्तं भवतां द्वौ दारको भविष्यतः, तौ च बालावस्थायामेव प्रजिष्यतः, तयोभवद्भ्यां व्याघातो न कार्यः. तो प्रव्रज्य घनं लोकं प्रतिबोधयिष्यतः. इति भणित्वा तौ देवौ स्वस्थानं गतो. ततोऽचिरेण च्युत्वा पुरोहितभार्याया उदरेऽवतीर्णो. ततोऽसौ पुरोहितः सभायों नगरानिर्गत्य प्रत्यंतग्रामे स्थितः, तत्रैव ब्राह्मणी प्रसूता, दारको जातो, लब्धसंज्ञौ तौ ताभ्यां मुनिमार्ग
CA-CHOCOCCRACOCOCALCCA
॥४८॥
For Private And Personal Use Only