SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४३२ ॥ 000000000 www.kobatirth.org त्रायातः, कुमारस्य मस्तकं मुंडापितं, परिधापितानि कषायवस्त्राणि, चतुरंगुलप्रमाणपट्टबंधः कुमारस्य श्रीवत्सालंकृते हृदि बद्धः, वरधनुनापि वेषपरावर्तनंः कृतः, तादृग्वेषधरौ द्वावपि ग्राममध्ये प्रविष्ट, तावता एकोद्विजः स्वमंदिरान्निर्गत्याभिमुखमागत्य कुमारौप्रत्येवमाह, आगच्छतामस्मद्गृहे, भुंजतां च. तेनेत्युक्ते तौ द्वावपि तद्गृहे गतो. ब्राह्मणेन राजरूपप्रतिपत्तिपूर्वकं तौ भोजितो. भोजनांते चैका प्रवरमहिला बंधुमती नाम्नीं कन्यामुद्दिश्य ब्रह्मदत्तकुमारमस्तकेऽक्षतान् प्रक्षिपति, भणति चैषोऽस्याः कन्याया वरोऽस्त्विति. वरधनुना भणितं, किमेतस्य मूर्खस्य बटुकस्य कृते एतावानायासः क्रियते ? ततो गृहस्वामिना भणितं श्रूयतामस्मदायासवृत्तांतः पूर्वं सुवृत्तनैमित्तिकेनाख्यातं यथास्या बालिकायाः पट्टाच्छादितवक्षःस्थलः समित्रो भवद्गृहे भोजनकारी वरो भविष्यति, सोऽस्या योग्यो वर इति तस्मिन्नेव दिने तस्याः कन्यायाः कुमारेण पाणिग्रहणं करितं मुदितो गृहस्वामी, कुमारस्त्वेकरात्रौ तत्र स्थितः द्वितीयदिने वरधनुना कुमारस्योक्तमावाभ्यां दूरे गंतव्यं, दीर्घराजासन्नत्वेनात्र स्थातुमावयोरयुक्तमिति तौ द्वावपि बंधुमत्याः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9990969999 सटीकं ॥ ४३२ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy