________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥३९९॥
DOO6600066900000000004
जातिविद्याविहीनाः, क्रियाकर्मविशेषेण चातुर्वर्ण्य व्यवस्थितमिति वचनात्, ब्राह्मणत्वजातिमान् ब्राह्मणः, ब्राह्मणब्राह्मणीभ्यामुत्पन्नो ब्राह्मणो नोच्यते, किंतु ब्राह्मणत्वेन ब्रह्मणः क्रियानिष्टत्वेन ब्रह्म|णि स्थितेन जातिधर्मेण विशिष्टो ब्राह्मण उच्यते, तस्मायुष्मासु ब्रह्मक्रियानिष्टत्वब्राह्मणत्वस्याभावान्न जातिरस्ति, ब्राह्मणा ब्रह्मचर्येणेति लक्षणोक्तित्वात्. न पुन!यं विद्यायुक्ताः, विद्यायास्तु विरतिरूपफलाभावात्. विद्यावानपि विरतिमान् सन् यावदाश्रवान् संवरद्वारेण न रुणद्धि तावत्स विद्यावानोच्यते, विद्या अपि परमार्थतस्ता एवोच्यंते, यासु पंचाश्रवपरिहार उक्तः, तस्मान्न भवंतो विद्यावंतः, भवत्सु भवदुक्तमेव जातिविद्योपपेतत्वं ब्राह्मणलक्षणं सर्वथा नास्त्येव, तस्मात्तानि सुपापकान्येव क्षेत्राणि भवंतः, न पुण्यक्षेत्राणि यूयं. ॥ १४ ॥ अथ कदाचिते एवं वदेयुः, वयं वेदविदो वर्तामहे इत्याह
॥ मूलम् ॥-तुप्भच्छ भो भारहरा गिराणं । अटुं न याणाह अहिज वेए ॥ उच्चावयाई मुणिणा चरंति । ताई तु खित्ताई सुपेसलाई ॥१५॥ व्याख्या-भो इत्यामंत्रणे, भो ब्राह्मणाः! यूयं
3000000000000000000000
For Private And Personal Use Only