________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
का सटीकं
॥३६॥
000000000000000000000
॥ मूलम् ॥-नच्चा नमइ मेहावी। लोए कित्ती य जायए ॥ हवइ किच्चाण सरणं । भूयाणं जगई जहा ॥ ४५॥ व्याख्या-मेधावी बुद्धिमान् साधुनमति विनयं करोति, किं कृत्वेति विनयशिष्यां ज्ञात्वा तस्य नम्रस्य लोके कीर्तिर्जायते, पुनः स विनयवान् साधुः कृत्यानामुचितकार्याणां शरणं भवत्याश्रवो भवति, केषां का? यथा भूतानां तरूणां जगति पृथ्वी यथा आश्रयभूता तथा सर्वेषां साधुकार्याणां विनयी साधुराश्रयो भवतीत्यर्थः. ॥४५॥
॥मूलम्॥-पुज्जा जस्स पसीयंति । संबुद्धा पुवसंथुया ॥ पसन्ना लाभइस्संति । विउलं अद्वियं सुयं ॥४६॥ व्याख्या-पूज्या आचार्या गुरवो यस्य शिष्यस्य प्रसीदंति प्रसन्नां भवंति, ते गुरवः प्रसन्नाः संतस्तं शिष्यंप्रति विपुलमार्थनं विस्तीर्णं वांछितं श्रुतं श्रुतज्ञानं लाभयिष्यति, कथंभूताः? पूज्याः संबुद्धाः सम्यग्ज्ञाततत्वाः, पुनः कथंभूताः? पूर्वसंस्तुस्ताः पूर्व सम्यक्प्रकारेण स्तुताः पठनकालात्पूर्वमेव संस्तुता विनयेन परिचिता रंजितास्तरकालविनयस्य कृतिप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, तेन सर्वदा संस्तुताः.अथवा कथंभूतं श्रुतमार्थकमों मोक्षः प्रयोजनमस्येति, आर्थिक
0000000@
@@@@@
॥
३
For Private And Personal Use Only