SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक ॥३८४॥ 900000000000000000000 ष्णोस्ति, उष्णकाले केनापि गंतुं न शक्यते, ततस्तन्मार्गस्य हुतवह इति नाम संजातं. तेन मुनिनासन्नगवाक्षस्थितः सोमदेवाभिधानः पुरोहितः पृष्टः, किमेतेन मार्गेण बजामीति. पुरोहितेन चिंतितं | यद्यसौ हुतवहमागें गच्छति, तदा दह्यमानममुं पश्यतो मम कौतुकमनोरथः पूर्णो भवतीति. अतस्तेन स एव मागों निर्दिष्टः, ईयोपयुक्तो मुनिस्तेनैव मार्गेण गंतुं प्रवृत्तः. लब्धिपात्रस्य तस्य पादप्र-10 भावतस्तादृशोऽपि मार्गः शांतो बभूव. तस्मिन्मार्गे शनैः शनैश्चलंतं मुनि वीक्ष्य स पुरोहितः स्वावासगवाक्षादुत्तीर्य स्वपादाभ्यां तं मार्ग स्पृष्टवान्, हिमवच्छीतलो मार्गः, तेन ज्ञातं मुनिपादमाहा-18 | त्म्यं, एवं च चिंतितं हा मया पापकर्मणा पुण्यात्मनोऽस्य कीदृशो मार्गः प्रकाशितः! परमस्य पाद| स्पर्शादेव मार्गतापोपशांतिर्जाता. ततो यद्यहमस्य शिष्योऽभूवं तदा ममैतस्य प्रायश्चित्तं भवतीति चिंतयित्वा तस्य मुनेः पुरः स्वपापं प्रकाशितं, पादौ च प्रणतो, मुनिनापि तस्य सम्यग्धर्मः प्रकाशितः, जातसंवेगेन तेन सोमदेवेन तस्य मुनेरंतिके दीक्षा गृहीता, चारित्रं विशेषात् पालयति, परमहं ब्राह्मणत्वादुत्तमजातिरिति मदं कुरुते, परं नैवं भावयति-गुणैरुत्तमतां याति । न तु 1000000000000000000000 ॥३८४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy