SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३६४ ॥ www.kobatirth.org मैत्रीं विधाय शिथिलाचारित्वेन तां मैत्रीं त्यजेयुरित्यर्थ. अथवा केनापि धर्मशिक्षाशास्त्रार्थदानादिना उपकारः कृतः स च हितकारकत्वान्मित्रप्रायस्तत्र उपकारलोपत्वेन कृतघ्नत्वेन मित्रत्वं वमति अविनीतस्यैतल्लक्षणमित्यर्थः पुनर्यः श्रुतं लब्ध्वा मायति, ज्ञानाभ्यासादहंकारं करोति, विद्यामदोन्मत्त इत्यर्थः ॥ ७ ॥ अपिशब्दः संभावनायां यः पापपरिक्षेपी, अपि संभाव्यते पापैः समितिगुप्तिस्खलनैः परिक्षिपति तिरस्करोतीत्येवंशीलः पापपरिक्षेपी समितिगुप्तिविराधकंप्रति तिरस्करोति. कोऽर्थः ? कदाचित् कश्चित् समितिगुप्तिषु अज्ञानितया स्खलति, तदा तंप्रति धिक्करोति, छिद्रं दृष्ट्वान्यं निंदतीत्यर्थः. तथा मित्रेषु अपि कुप्यति, मित्रेभ्योऽपि शिक्षादातृभ्यः संधेभ्यः कुध्यति, स्वयं क्रोधं करोति, तान् वा क्रोधयति पुनः सुतरामतिशयेन प्रियस्य मित्रस्य हितवांछकस्य गुर्वादेरपि रहसि एकांते पापकं, पापमेव पापकं अवर्णवादं भाषते, कोऽर्थः ? अग्रतः प्रियं वक्ति, पृष्टतः दोषं वक्तीत्यर्थः ॥ ८ ॥ पुनः प्रकीर्णवादी, प्रकीर्ण असंबद्धं वदति इति प्रकीर्णवादी, अथवा प्रतिज्ञया च इदं इत्थमेव इत्यादिनिश्चयभाषणशीलः पुनर्दुहिलो द्रोग्धा द्रोहकरणशील इत्यर्थः पुनः स्तब्धोऽहंकारी, अहं तपस्वी इ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३६४ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy