________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३५२॥
00@@@@
@@@@
रोगा आतंका देहं पीडयंति, तैरागैः पोडिते शरीरे सति धर्माराधनं दुःकरं, ते शरीरं रोगाभिभूतं सद्विपतति, विशेषेण बलापचयान्नश्यति, पुनः शरीरं ते तव विध्वस्यते, जीवमुक्तं सद्विशेषेणाधः पतति. अत्र सर्वत्र यद्यपि ते तवेत्युक्तं, गौतमे च केशपांडुरत्वादींद्रियाणां हानिश्च न संभवति, तथापि तन्निश्रयापरशिष्यादिवर्गं प्रतिबोधार्थमुक्तं, दोषाय न भवति, तथा च प्रमादो न विधेयः.
॥ मूलम् ॥-वुच्छिद सिणेहमप्पणो । कुमुयं सारइयंव पाणियं ॥ से सबसिणेहवज्जिए । समयं गोयम मा पमायए ॥ २८ ॥ व्याख्या-हे गौतमात्मनः स्नेहं मयि विषये रागं व्युच्छिधि ? अपनय स्नेहं ? बंधनं त्यजेत्यर्थः. किं किमिव ? कुमुदं कमलं पानीयमिव, यथा कुमुदं पानीयं त्यक्त्वा पृथक्तिष्टति, तथा त्वमपि स्नेहं त्यक्त्वा पृथग्भवेत्यर्थः. कीदृशं पानीयं ? शारदं, शरदि ऋतौ भवं शारदं. अत्र पानीयस्य शारदमिति विशेषणेन मनोरमत्वं स्नेहस्य दर्शितं, स्नेहो हि संसारिणो जीवस्य मनोहरो लगति, सेशब्दोऽथशब्दार्थः, अथ त्वं सर्वस्नेहवर्जितः सन् समयमात्रमपि प्रमादं मा कुर्याः? ॥२८॥
॥ मूलम् ॥-चिच्चा धणं च भारियं । पच्चइओहिसि अणगारियं ॥ मा वंतं पुणोवि पायए ।
10000000000000000000000
@@@@
@
For Private And Personal Use Only