________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३२७॥
Đi tu chân dung
कृत्वा ततः पश्चाद्वलितस्तमाम्रवृक्ष काष्टशेषमालोक्येवं चिंतितवान् , अयमाम्रवृक्षो नेत्रप्रीतिकरो यो मया पूर्वमागच्छता दृष्टः, सोऽयं काष्टशेषो विगतशोभः सांप्रतं दृश्यते, यथायं तथा सर्वोऽपि जीवः कुटुंबधनधान्यदेहादिसौंदर्यभ्रष्टो नैव शोभां प्राप्नोति, एतच्च सर्व विनश्वरं यावन्न क्षीयते तावत्संयमे यत्नः कार्यः, इति चिंतयन्नगातिः प्रतिबुद्धो जातः, शासनदेवीप्रदत्तवेषः संयममाददे. अन्यदा ते करकंडुद्विमुखनमिनगातिराजानश्चत्वारोऽपि प्रत्येकबुद्धाः संयमिनो विहरंतोऽन्येयुः क्षोणीप्रतिष्टनगरे प्राप्ताः, तत्र चतुर्मुखे देवकुले क्रमतः पूर्वाद्येषु चतुर्दिग्द्वारेषु युगपत्प्रविष्टाः, तेषामादरकरणार्थं चतुर्मुखो यक्षः समंतात्सन्मुखोऽभवत् , तदानीं करकंडुमुनिः स्वदेहकंडुरोगोपशमनाय कर्णधृतां शलाकां गोपयन् द्विमुखेन संयमिनोक्तः पुरमंतःपुरं राज्यं देशं च विमुच्य पुनस्त्वं किं संचयं कुरुषे ? करकंदृमुनिर्यावतंप्रति वक्ति तावन्नमिराजर्षिणा द्विमुखप्रत्येवमुक्तं सर्वाणि राज्यकार्याणि मुक्त्वा पुनस्त्वया किमिदं शिक्षारूपं कार्य कर्तुमारब्धं? यावद द्विमुखो मुनिमिराजर्षिप्रत्युत्तरं दत्ते तावन्नगातिराजर्षिरेवमुवाच, यदा राज्यं परित्यज्य भवान् मुक्तावुत्सहते तदान्यं किमयाख्यातुं नाहति. अथ कर
00000000000
t
in Tin
॥३२७॥
For Private And Personal Use Only