________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
ono
सटीकं
॥२२९॥
@@
0000@@@@EDEne@@@0000
न्यादत्तहरः, अदत्तादानसेवीत्यर्थः. पुनः कीदृशः? स्तेनश्चौर्येण कल्पितवृत्तिः, पुनः कोशः? मायी कापट्ययुक्तः, पुनः कीदृशः? कस्यार्थं नु इति वितकें हरिष्यामीति विचारो यस्य स कन्हहरः, पुनः | कोशः? शठो वक्राचारः. ॥ ५॥ पुनः कीदृशः? स्त्रीविषये शृद्धः, पुनः कीदृशः ? महारंभपरिग्रहः, | महांतावारंभपरिग्रहो यस्य स महारंभपरिग्रहो महारंभी, पुनर्महापरिग्रही, पुनः कीदृशः? सुरां मयं मांसं च भुंजानः, पुनः कीदृशः? परिवूढ उपचितमांसत्वेन स्थलः, पुनः कीदृशः? परंदमः, परमन्यं जीवं दमतीति परंदमः परपीडाकारकः, आत्मार्थ परजीवोपघातक इत्यर्थः ॥ ६॥ पुनः कीदृशः? अजकर्करभोजी, अजस्य छागादेः कर्करमतिभ्रष्टं यच्चणकवद्भुज्यमानं कर्करायते तन्मेदो दंतुरं पक्वं शृलाकृतं मांसं तद्भुक्ते, इत्येवंशीलोऽजकर्करभोजी, पुनस्तुंदमस्यास्तीति तुंदिलो यथेप्सितभोजनेन वर्धितोदरः, अत एव चितशोणितो वार्धतरुधिरः, रुधिरवृध्ध्यान्येषामपि धातूनां वृद्धिगृह्यते. ॥७॥ पूर्व · हिंसे बाले' इत्यादिनारंभोक्तिः कथिता, 'भुंजमाणे सुरं मांसं' इत्यनेन दुर्गतिगमनभणनात्क|प्टोत्पत्तिः कथिता. अथ गाथाद्वयेन साक्षादिहैव कष्टं कथयति
@@@@@
0
॥२२२॥
00
For Private And Personal Use Only