________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २०० ॥
900900999999999990090000
www.kobatirth.org
| पुनरर्थायोत्पाटितानि, उभयत्रापि प्राणवधः कृत इति ॥ ८ ॥
॥ मूलम् ॥ - हिंसे बाले मुसावाई । माइले पिसुणे सढे ॥ भुंजमाणे सुरं मंसं । सेसं मेयंति मन्नइ ॥ ९ ॥ व्याख्या -स बालो हिंस्रो हिंसनशीलो भवति, पुनर्मृषावादी भवति, माइल्लो मायाकारकः कपटवान्, पिशुनः परनिंदकः, पुनः शठो वेषाद्यन्यथाकरणेन धूर्तो मूर्खो वा, सुरां मांसं च भुंजानोऽपि मे ममैतत् श्रेयः कल्याणमिति मन्यते, अत एव शठ इत्यर्थः ॥ ९ ॥
॥ मूलम् ॥ —कायसा वयसा मते । वित्ते गिद्धे अ इत्थिसु ॥ दुहुओ मलं संचिणुइ । सिसुनागुव्व महियं ॥ १० ॥ व्याख्या - पुनः कीदृशः सः ? कायेन मत्तः, पुनर्वचसा मत्तः, पुनर्वित्ते द्रव्ये गृद्धो लोभी च पुनः स्त्रीषु गृद्धः, कायेन मत्तो यतस्ततः प्रवृत्तिमान् बलवानहं रूपवानहमिति चिंतयन् वा वचसात्मगुणान् कथयन् मुखरोऽहमिति वा चिंतयन् उपलक्षणत्वान्मनसा मदोन्मत्तो धारणादिशक्तिमानहमिति वा चिंतयन् स ' दुहओत्ति' द्वेधा द्वाभ्यां रागद्वेषाभ्यां मलं संचिनुते मलसंचयं कुरुते, कः कामिव ? शिशुनागोऽलसो द्रोंद्रियजीव विशेषो भूनागो यथा मृत्तिकां संचिनुते,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
000000000
00000000
सटीक
॥। २०० ।।