________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२॥
00000000000000000000
प्रहाय त्यक्त्वा, पुनः किं कृत्वा ? लोकं प्राणिसमूह समया शत्रुमित्रोपरि साम्यभावेन समित्य सम्यग् ज्ञात्वा. ॥१०॥ अत्र ब्राह्मणीकथा
एको ब्राह्मणः परदेशे गत्वा सर्वशास्त्रपारगो भूत्वा स्वदेशे समायातः, तस्य प्रकामं पांडित्यं दृष्ट्वैकेन ब्राह्मणेन कन्या दत्ता, तेन परिणीता स च लोके भृशं दक्षिणां लभते, धनवान् जातः. तस्या भार्यायास्तेन बहून्याभारणानि दत्तानि, सापि तानि वांगे परिहितान्येव रक्षति, न चांगात्कदाचिदप्युत्तारयति, तेनैकदा तस्याः कथितमेष तुच्छग्रामोऽस्ति, नित्यमाभरणपरिधानमयुक्तं, कदाचिद्यद्यत्र चौराः समायांति तदा तवांगकदर्थना भवति, सा प्राह यदा चोराः समायास्यति तदा त्वरितमंगादाभरणान्यहमुत्तारयिष्यामि. अन्यदा तस्या गृह एव चौराः समायाताः, सा तदानीं निबिडमंगलनान्याभरणानि स्वांगादुत्तारयितुमसमर्था तथैव स्थिता, तस्याः साभरणान् पाण्याद्यवयवांश्छित्वा तैहीताः, सा च महती कदर्थनां प्राप्य मृता. एवमन्येऽपि प्राकृतकर्मविपाककाले विवेकमेतुं न शक्नुवंति समिच्चलोगं समया महेसी । अप्पाण रक्खी चरप्पमत्तो॥' अत्र प्रमादपरिहारापरिहार
000000000000000000000
॥१९२॥
For Private And Personal Use Only