________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१७७॥
800000000000000000000
किं भयं? ते कथयंत्यस्मिन् प्रध्वरमार्गे महत्यटवी समेष्यति. तस्या मध्ये महानेकश्चौरो दुर्योधननामा वर्तते, द्वितीयस्तु गर्जनं कुर्वन् विषमो गजो वर्तते, तृतीयो दृष्टिविषसों वर्तते, चतुथों दारुणो व्याघ्रो वर्तते. एवं चत्वारि भयानि तत्र वर्तते. कुमारः प्राहैतेषां मध्ये नैकस्यापि भयं कुरुत? चलत सत्वरं मार्गे ? कुशलेनैव शंखपुरे यास्यामः. ततः सर्वेऽपि तस्मिन्नेवाध्वनि चलिताः, अग्रे गच्छतां तेषां दुर्योधनश्चौरस्त्रिदंडभाम्मिलितः, सोऽपि पांथोऽहं शंखपुरे यास्यामीति वदन् सार्थेन साध चलति, मार्गे चैकः सन्निवेशः सामायातस्तदा त्रिदंडिनोक्तं ममोपलक्षितोऽयं सन्निवेशो वर्तते, तेनात्र गत्वा मया दध्याद्यानीयते यदि भवतां रुचिः स्यात. सार्थिकैरुक्तमानीयतां ? ततस्तेन तदंतर्गत्वा दध्याद्यानीतं, विषमिश्रितं कृत्वा सर्वेषां पायितं, मृताः सर्वे साार्थकाः, अगडदत्तेन भार्याद्वययुतेन तन्न पीतमिति न मृतः, स त्रिदंडी पुनः सन्निवेशमध्ये गत्वा कियत्परिवारयुतो गृहीतशस्त्रः कुमारमारणायायातः, कुमारेण खड्गं गृहीत्वा सन्मुखं गत्वा घोरसंग्रामकरणेन स हतः, परिवारस्तु नष्टः, भूमौ पतता तेन चोरेणैवमुक्तमहं दुर्योधनश्चौरः प्रसिद्धः, त्वयाहं हतो न जीविष्यामि, परं मम बहुद्रव्यं
000000000000000000000
For Private And Personal Use Only