________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटीकं
॥१७६॥
30000000000000000000000
अन्यदा कलाभ्याससमये यया श्रेष्टिसुतया सह प्रीतिर्जातासीत्तया मदनमंजर्या कुमारसमीपे दूती प्रेषिता; तयोक्तं तव गुणानुरक्ता तवैवेयं पत्नीं भवितुं वांछति, कुमारेणाप्युक्तं यदाहं शंखपुरं यास्यामि तदा त्वां गृहीत्वा यास्यामीति तस्यास्त्वया वक्तव्यं. अथान्यदा तत्र पित्रा प्रेषिता नराः 8 कुमाराकारणाय समेताः, कुमारस्तु तेषां वचनमाकर्ण्य पितुर्मिलनाय भृशमुत्कंठितः श्वशुरं पृष्ट्वा कमलसेनया समं चलितः, चलनसमये च मदनमंजर्याकारिता, सापि कुमारेण समं चलिता, ताभ्यां प्रियाभ्यां सह सैन्यवृतः कुमारः पथि चलन् बहून् भिल्लान् सन्मुखमापततो ददर्श, तदा कुमारसैन्येन तैः समं युद्धं कृतं, भग्नं कुमारसैन्यं, भिल्लैटुंटितमितस्ततो गतं, भिल्लपतिस्तु कुमाररथे | 8 | समायातः, उत्पन्नबुद्धिना कुमारेण स्वपत्नी रथाग्रभागे निवेशिता, तस्या रूपेण मोहं गतो भिल्लपतिः कुमारेण हतः, पतिते च तस्मिन् सर्वेऽपि भिल्ला नष्टाः, कुमारस्तु तेनैवैकेन रथेन सह गच्छन्नग्रे महतः सार्थस्य मिलितः, सार्थोऽपि सनाथ इव मार्गे चलितः, कियन्मार्ग गत्वा सार्थिकैः कुमारायैवमुक्तं कुमार ! इतः प्रध्वरमागें भयं वर्तते, ततः प्रध्वरमार्ग विहायापरमार्गेण गम्यते, कुमारेणोक्तं
000000see000000000000
॥ १७६॥
For Private And Personal Use Only