________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
000000000000000000006
मित्रपुत्रकलत्रादयः स्वबांधवास्तस्य पापकर्मफलवेदकाले विपाककाले बांधवतां बंधुभावं नोपयांति ॥४॥ अत्राभीरीवंचककथा यथा
क्वापि ग्रामे कोऽपि वणिग्हढे क्रयविक्रयं करोति, अन्यदैकाभीरी तद्बट्टे आगता, तया भणितं भो रूपकद्वयस्य मे रुतं देहि ? तेनोक्तमर्पयामि, अर्पितं तया रूपकद्वयं, तेन वणिजैकस्यैव रूपकस्य रुतं वारद्वयं तोलयित्वार्पितं, सा जानाति मम रूपकद्वयस्य रुतं दत्तं, वंचिता च सा तस्यां गतायां । स चिंतयत्येष रूपको मया मुधा लब्धः, ततोऽहमेवमुपभुंजाभि, तस्य रूपकस्य घृतखंडादि लात्वा स्वगृहे विसर्जितं, भार्यायाः कथापितमद्य घृतपूरान् कुर्याः ? तया घृतपूराः कृताः, तावता तद्गृहे समित्रो जामाता समायातः, तस्यैव तया घृतपूराः परिवेषिताः, समित्रेण तेन भक्षिताः, गतः समित्रो जामाता, वणिग् गृहे समायातः, स्नानं कृत्वा भोजनार्थमुपविष्टः, तया स्वाभाविकमेव भोजनं परिवेषितं, वणिग्भणति कथं न कृताघृतपूराः? तयोक्तं कृताः, परमागंतुकेन समित्रेण जामात्रा भक्षिताः, स चिंतयति मया सा वराक्याभोरी वंचिग, परार्थमेवायमात्मा पापेन संयोजितः, एवं चिंतयन्नेवासौ
000000000000000000004
For Private And Personal Use Only