________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ११ ॥
www.kobatirth.org
मेव भाषेत, अकृतं कृतं कार्यं न भाषेत, अयं परमार्थः - गुरूणां पुरतः सुशिष्येण सत्यवादिना भाव्यं. ११ ॥ मूलम् ॥-मा गलियस्सेव कसं । वयणमिच्चे पुणो पुणो ॥ कसं व दहुमाइने | पावगं पडि वज ॥ १२ ॥ व्याख्या - अथ विनताविनीतयोर्दृष्टांतमाह - विनीतः साधुराकीर्ण इव सुविनीताश्व इव गुरोर्वचनं शिक्षारूपं करणयोग्यस्य कार्यस्य प्रवृत्तिसूचकं करणायोग्यस्वकर्मस्य निवृत्तिसूचकं च मा इच्छेत्, पुनः पुनर्न इच्छेत्, किंतु एकवारं ज्ञापितं सत्सर्वं स्वकार्यं गुरोश्चित्तं च जानीते, किं कृत्वेव कथं प्राजनकं दृष्ट्वा ? इव यथा गल्यश्वो दुर्विनीततुरगोऽश्ववारस्य त्राजनकमिच्छेत्, तथा विनीतो वचनतर्जनं नेच्छेत्तथा सुविनीतशिष्य आचार्यस्याकारमिंगितं ज्ञात्वा पापानुष्ठानं वर्जयेदित्यर्थः ॥ १२ ॥
॥ मूलम् ॥ अणासवा थूलवया कुसीला । मिउंपि चंडं पकरेंति सीसा ॥ चित्ताणुया लहु दक्खोववेया । पसायय ते हु दुरासयपि ॥ १३ ॥ व्याख्या - अथ पुनर्विनीताविनीतयोराचारमाह| पूर्वार्धेन दुर्विनीतशिष्याणामाचारं वदति, एतादृशाः शिष्या मृदुमप्याचार्य सरलमपि गुरुं चंडं कोपसहितं कुर्वति, एतादृशाः कीदृशाः ? अनाश्रवा गुरुवचनेऽस्थिताः, आश्रवो वचने स्थित इति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3000009999999900999000
सटीकं
॥ ११