________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥७३४॥
83450-A-HARA9-
15EOSREG
महं सुणामि ते ॥ ८॥ व्याख्या-तदा श्रेणिकः किं पृच्छति? हे आर्य! हे साधो! त्वं तरुणोऽसि | युवासि, हे संयत! हे साधो! तस्माद्भोगकाले भोगसमये प्रवजितो गृहीतदीक्षः, तारुण्यं हि भोग| स्य समयोऽस्ति, न तु दीक्षायाः समयः. हे संयत! तारुण्ये भोगयोग्यकाले त्वं श्रामण्ये दीक्षायामुपस्थितोऽसि, आदरसहितोऽसि. एतदर्थमेतन्निमित्तं त्वत्तः शृणोमि, किं दीक्षायाः कारणं? कस्मानिमित्तादीक्षा त्वया गृहीता? तत्कारणं त्वन्मुखात् श्रोतुमिच्छामीत्यर्थः ॥ ८॥
॥ मूलम् ॥-अणाहोमि महाराय । नाहो मज न विजई ॥ अणुकंपयं सुहियं वावि । किंचि णाभिसमेमहं ॥ ९॥ व्याख्या-इदानीं स साधुर्वदति. हे महाराज! अहमनाथोऽस्मि, न विद्यते नाथो योगक्षेमविधाता यस्य सोऽनाथः, निःस्वामिकोऽस्मि, मम नाथो न विद्यते इत्यर्थः. पुनरहं कंचित्कमप्यनुकंपकं कृपाचिंतकं सुहितं सुहृदं मित्रं वा नाभिसमेमि न संप्राप्नोमि, केनापि दयालुना मित्रेण वा संगतोऽहं न. अनेनार्थेन तारुण्येऽपि प्रबजित इति भावः ॥९॥
॥ मूलम् ॥ तओ पहसिओ राया। सेणिओ मगहाहिवो॥ एवं ते इद्द्विमंतस्स । कहं नाहो
७३४॥
For Private And Personal Use Only