________________
SA Maravir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
॥७२५॥
ALSARA-SICASSES
माणवमाणओ ॥ ९१ ॥ व्याख्या-तथा पुनर्मूगापुत्रो लाभे, आहारपानीयवस्त्रपालादीनां प्राप्तौ, तथाऽलाभेऽप्राप्तौ, तथा सुखे तथा दुःखे, तथा पुनर्जीविते मरणे समः समानवृत्तिः. तथा पुनर्निदासु तथा प्रशंसासु स्तुतिषु, तथा माने आदरे, अपमानेऽनादरे, मानश्चापमानश्च मानापमानौ, तयोर्मा-हू नापमानयोः समः सदृशः. केनाप्यादरे प्रदत्ते सति मनसि न प्रहृष्टो भवति, केनाप्यपमाने प्रदत्ते सति मनसि दूनो न भवति. ॥ ९१ ॥
॥ मूलम् ॥-गारवेसु कसाएसु । दंडसल्लभएसु य ॥ नियत्तो हाससोगाओ। अनियाणो अबंधणो ॥ ९२॥ व्याख्या-पुनः स मृगापुत्रः कीदृशो जातः? गारवेभ्यो निवृत्तः, पुनः कषायेभ्यः क्रोधादिभ्यो निवृत्तः. च पुनदंडशल्यभयेभ्यो निवृत्तः. दंडत्रयं मनोवाकायानामसव्यापारो दंड उच्यते, तस्मानिवृत्तः, पुनः शल्यत्रयान्निवृत्तः, मायाशल्यं, निदानशल्यं, मिथ्यादर्शनशल्यं चैतच्छल्यत्रयं, ततो निवृत्तः. तथा पुनः सप्तभयेभ्यो निवृत्तः. सप्त भयानीमानि-इहलोकभयं १, परलोकभयं २, आदानभयं ३, अकस्माद्भयं ४, मरणभयं ५, अयशोभयं ६, आजीविकाभयं ७, च. एवं
ॐ+Gem-04-0
॥७२५॥
R
+31
For Private And Personal Use Only