________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२८६ ॥
www.kobatirth.org
स्युस्तदा सुगतिः स्यादित्यर्थः ॥ ६० ॥
॥ मूलम् ॥ - मित्थादंसणरत्ता । सनियाणा हु हिंसगा ॥ इइ जे मरंति जीवा । तेसिं पुण दुलहा बोही ॥ ६१ ॥ व्याख्या - इत्यमुना प्रकारेण ये जीवा म्रियंते, तेषां जीवानां पुनर्जन्मांतरे बोधिजैनधर्मरुचिर्दुर्लभा दुःप्रापा भवेत् इतीति किं ? ये जीवा मिथ्यादर्शनरक्ताः, अतत्वे तत्वाभिनिवेशरूपं मिथ्यादर्शनं, तत्र रक्ता मिथ्यादर्शनरक्ताः, तादृशाः संतो म्रियंते, पुनयें जीवाः सनिदानाः, निदानेन विषयाद्याशया सह वर्तते इति सनिदानास्तादृशाः संतो म्रियते, तथा हु इति निश्चयेन ये जीवा हिंसका जोवहिंसाकारिणः संतो म्रियंते, तादृशानां भवांतरे जिनधर्मप्राप्तिर्दुर्लभा स्यादित्यर्थः ॥ ६१ ॥
॥ मूलम् ॥ — सम्मदंसणरत्ता | अनियाणा सुकुले समोगाढा ॥ इइ जे मरंति जीवा । सुलहा | तेसिं भवे बोही ॥ ६२ ॥ व्याख्या - इत्यमुना प्रकारेण ये जीवा म्रियंते, तेषां जोवानां बोधिजैनधर्मप्राप्तिर्भवांतरे सुलभा भवेत् इतोति किं ? ये जीवाः सम्यग्दर्शनरक्ताः, देवतत्वगुरुतत्वधर्मतत्व
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटार्क
॥१२८६ ॥